अनुवाकः 20 TS 1.4.20

(A20)

(म॒हानेका॒न्नविꣳ॑शतिः)

अनुवाकः 20 - Complete Audio

TS 1.4.20 - स्वरानुगामी

0:00 0:00
PS1.1 म॒हाꣳ इन्द्रो॒ य ओज॑सा
PS1.2 प॒र्जन्यो॑ वृष्टि॒माꣳ इ॑व
PS1.3 स्तोमै᳚र्व॒थ्सस्य॑ वावृधे
PS1.4 उ॒प॒या॒मगृ॑हीतो-ऽसि महे॒न्द्राय॑ त्वै॒ष ते॒
PS1.5 योनि॑र् महे॒न्द्राय॑ त्वा

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.20.1 TS 1.4.20.1
म॒हाꣳ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माꣳ इ॑व । स्तोमै᳚र्व॒थ्सस्य॑ वावृधे ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र् महे॒न्द्राय॑ त्वा ॥
पदपाठः (Word-by-word)
म॒हान् । इन्द्रः॑ । यः । ओज॑सा । प॒र्जन्यः॑ । वृ॒ष्टि॒मानिति॑ वृष्टि-मान् । इ॒व॒ ॥ स्तोमैः᳚ । व॒थ्सस्य॑ । वा॒वृ॒धे॒ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । म॒हे॒न्द्रायेति॑ महा - इ॒न्द्राय॑ । त्वा॒ । ए॒षः । ते॒ । योनिः॑ । म॒हे॒न्द्रायेति॑ महा - इ॒न्द्राय॑ । त्वा॒ ॥ 21(19)
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 शुक्रपात्रेण माहेन्द्रं गृह्णाति - महानिति गायत्र्या त्रिपदया ॥ य ओजसा बलेन महान् इन्द्रः । पूर्ववद्रुत्वादि संहितायाम् । स इन्द्रः, वत्सस्य वत्सस्थानीयस्य यजमानस्य ऋषेर्वा वत्सनाम्नः, स्वभूतैस्तोमैस्स्तोत्रैः वावृधे वर्धताम् । 'छन्दसि लुङ्लिङ्लिटः' इति लिट् । 'तुजादीनां' इत्यभ्यासस्य दीर्घः । क इव? पर्जन्यो वृष्टिमानिव यथा वृष्टिमान् पर्जन्योभिवर्धते लोकाभिवृद्ध्या तथेत्यर्थः । वृष्टिमानित्यस्व 'ह्रस्वनुङ्भ्यां मतुप्' इति मतुप उदात्तत्वम् । पूर्ववद्रुत्वादि संहितायाम् ॥

इमामनुद्रुत्योपयामगृहीतोसि महेन्द्राय त्वेति गृह्णाति ॥

2 एष ते योनिर्महेन्द्राय त्वेति सादयति ॥ 'इन्द्रो वृत्रमहन् तं देवा अब्रुवन्महान्वा अयमभूत्' इत्यादि ब्राह्मणम् ॥
इति चतुर्थे विंशोनुवाकः ॥