पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे चतुर्थप्रपाठके अष्टात्रिंशोऽनुवाकः)।
सप्तत्रिंशेऽनुवाके दक्षिणा निरूपिता। अष्टात्रिंशे समिष्टयजुर्होमो निरूप्यते।
कल्पः – ‘जुह्वां नवगृहीतं गृहीत्वा धाता रातिरित्यन्तर्वेद्यूर्ध्वस्तिष्ठन्संततं समशो नव समिष्टयजूंषि जुहोति’ इति।
तत्र षड् ऋचस्त्रीणि यजूंषि जुहोति।
षट्सु प्रथमा तावदेवं पठिता — धातेति। धाता सविता प्रजापतिरित्यग्निस्त्वष्टा विष्णुश्चैते षड्देवा नोऽस्माकमिदं हविर्जुषन्ताम्। कीदृशो धाता। रातिर्दानशीलः। कीदृशः प्रजापतिः। निधिपतिः, महाशङ्खखर्वादिनामकानां नवानां निधीनां पालयिता। सोऽयं देवगणो यजमानसंबन्धिन्या प्रजया संरराणः सम्यग्रममाणस्तथा यजमानार्थं द्रविणं दधातु पोषयतु।
अथ द्वितीया — समिन्द्रेति। हे इन्द्र त्वमनुग्रहयुक्तेन मनसा नोऽस्मान्गोभिः संनेषि संयोजय। सूरिभिर्विद्वद्भिर्होतृप्रमुखैः संयोजय। हे मघवन्स्वस्त्या क्षेमेण संयोजय। ब्रह्मणा वेदेनार्थज्ञानसहितेन देवकृतं देवार्थं कर्म यदस्ति तेन संयोजय। यज्ञसंबन्धिनां देवानां सुमत्याऽनुग्रहबुद्ध्या संयोजय।
अथ तृतीया — सं वर्चसेति। वयं देवतानुग्रहबलाद्वर्चसा बलेन तद्धेतुना च पयसा क्षीरादिना समगन्महि संगताः स्मः। तनूभिः शरीरैः सोभनैः संगताः। शिवेन श्रद्धालुना मनसा संगताः। त्वाष्टा देवो नोऽस्माकमत्रास्मिन्कर्मणि वरिवो वरणीयं धनं कृणोतु करोतु। किंच तनुवः शरीराणि अनुमार्ष्टु शोधयतु। यद्विलिष्टं पापं तदप्यनुमार्ष्टु।
अथ चतुर्थी — यदद्येति। हेऽग्ने यद्यस्मात्कारणादद्यास्मिन्दिन इह देवयजनदेशेऽस्मिन्यज्ञे प्रयति प्रवर्तमाने सति त्वां होतारं होमनिष्पादकमवृणीमहि तस्मात्कारणादृधक्समृद्धं यथा भवति तथाऽयाडयाक्षीः। उतापि च त्वमृधक्समृद्धं प्रजानन्नशमिष्ठा अस्मद्विघ्नशान्तिमकार्षीः। अतस्त्वं विद्वानस्मद्भक्तिं जानन्निमं यज्ञमुपयाहि प्राप्नुहि।
अथ पञ्चमी — स्वगा व इति। हे देवा ये यूयं जुषाणाः प्रीयमाणा इदं सवना इमानि त्रीणि सवनानि आजग्माऽऽगतास्तेषां वः सदनं स्थानं स्वगा स्वाधीनमकर्म वयमकार्ष्म। विश्वे ते सर्वे यूयं जक्षिवांसः सवनीयपुरोडाशान्भक्षितवन्तः पपिवांसः सोमं पीतवन्तश्च। हे वसवो निवासहेतवो यूयमस्मे अस्मासु वसूनि धनानि धत्त स्थापयत।
अथ षष्ठी — यानावह इति। हेऽग्ने देवोशतो हवींषि कामयमानान्यान्देवानावहो वर्णव्यत्ययादाहव आहूतवानसि, तान्देवान्स्वे स्वकीये सधस्थे सहनिवासस्थाने प्रेरय। हे देवा हवींषि वहमाना रथादिभिर्नयन्तो भरमाणाः पोषयन्तो वसुं जगन्निवासहेतुं धर्ममादित्यमातिष्ठताऽऽगच्छत। अन्वनन्तरं दिवं स्वर्गमागच्छत।
अथ त्रयाणां यजुषां मध्ये प्रथमं यजुः - यज्ञेति। हे यज्ञ त्वं स्वप्रतिष्ठार्थं यज्ञनामकं विष्णुं गच्छ। फलप्रदानार्थं यज्ञपतिं यजमानं गच्छ। स्वनिष्पत्त्यर्थं स्वां योनिं स्वकारणभूतां वायोः क्रिया शक्तिं गच्छ। स्वाहा हुतमस्तु।
अथ द्वितीयम् — एष त इति। हे यज्ञपते यज्ञस्वामिन्नेषोऽनुष्ठीयमानस्ते यज्ञः सूक्तवाकैः स्तोत्रैः सहितः, शोभना वीराः कर्मकुशला ऋत्विजो यस्यासौ सुवीरः। तत इदमाज्यं त्वया स्वाहा हुतमस्तु।
अथ तृतीयम् – देवा इति। हे गातुविदो मार्गज्ञा देवा गातुं वित्त्वा भवदागमनमार्गं ज्ञात्वा यज्ञे समाप्ते सति गातुमित पुनस्तमेव मार्गं गच्छत। हे मनसस्पते देव परमेश्वर नोऽस्माकमिमं यज्ञं देवेषु हविर्भुक्षु स्वाहा प्रथमं स्थापय। ततो वाचि मन्त्ररूपायां वाग्देवतायां स्थापय। ततो वाते क्रियाप्रवर्तके देवे धाः स्थापय।
यथोक्तमन्त्रसाध्यं होमं विधत्ते — ‘समिष्टयजूषि जुहोति यज्ञस्य समिष्ट्यै यद्वै यज्ञस्य क्रूरं यद्विलिष्टं यदत्येति यन्नात्येति यदतिकरोति यन्नापि करोति तदेव तैः प्रीणाति’ (सं. का. ६ प्र. ६ अ. २) इति।
सम्यग्यजनं समिष्टं युज्यन्ते प्रयुज्यन्त इति धारा रातिरित्यादयो मन्त्रा यजूंषि। समिष्टार्थानि यजूंष्युच्चार्याऽऽज्यं जुहुयात्। तच्च यज्ञस्य सम्यगनुष्ठित्यै संपद्यते। क्रूरादिदोषाणां होमेन समाहितत्वात्। क्रूरं पशुहिंसादि। विलिष्ठं विहितस्य दक्षिणादिद्रव्यस्याल्पीभावः। अत्ययानत्ययौ कालकृतौ। तथा हि ‘पाशुकानां प्रयाजानां चोदकवशेन हविरासादनादूर्ध्वमनुष्ठनं प्राप्तं तत्तु तिष्ठन्तं पशुं प्रयजन्तीति वचनेन पशुविशसनात्प्रागपकृष्टं, तदनादृत्य चोदकवशेनैवानुष्ठानमशास्त्रीयः कालात्ययः। तथा तृतीयसवनोपक्रमे सवनीयपशोरङ्गप्रचारानन्तरमेवानूयाजाश्चोदकवशेन प्राप्तास्ते त्वाग्निमारुतादूर्ध्वमनूयाजैश्चरन्तीति वचनेन तृतीयसवनस्य समाप्तिकाल उत्कृष्टाः, तदनादृत्योपक्रम एव तदनुष्ठानमशास्त्रीयः काला(न)त्ययः। अपबर्हिषः प्रयाजान्यजतीति वचनेनावभृथे बर्हिर्नामकश्चतुर्थप्रयाजो निषिद्धः। तन्निषेधमतिक्रम्य तस्यानुष्ठानमतिकरम्। विहितस्य कस्यचिदङ्गस्य विस्मृतिरकरणम्। अपिशब्दः क्रूरादीनां समुच्चयार्थः। तच्च क्रूरादिकं तैरेव होमैः प्रीणाति समादधाति।
आहुतिसंख्यां विधत्ते — 'नव जुहोति नव वै पुरुषे प्राणाः पुरुषेण यज्ञः संमितो यावानेव यज्ञस्तं प्रीणाति’ (सं. का. ६ प्र. ६ अ. २) इति।
प्राणास्तदाधारच्छिद्राणि।
नवसु मन्त्रेषु ऋग्यजुषोरवान्तसंख्यां विधत्ते — ‘षड्ऋग्मियाणि जुहोति षड्वा ऋतव ऋतूनेव प्रीणाति त्रीणि यजूषि त्रय इमे लोका इमानेव लोकान्प्रीणाति’ (सं. का. ६ प्र. ६ अ. २) इति।
यज्ञस्य यजमानप्राप्तिः स्वकारणप्राप्तिश्च मन्त्रपाठादेव संपद्यत इत्याह — ‘यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छेत्याह यज्ञपतिमेवैनं गमयति स्वां योनिं गच्छेत्याह स्वामेवैनं योनिं गमयति’ (सं. का. ६ प्र. ६ अ. २) इति।
सुवीरशब्देन वीर्यप्राप्तिः सूच्यत इत्याह — ‘एष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीर इत्याह यजमान एव वीर्यं दधाति’ (सं. का. ६ प्र. ६ अ. २) इति।
देवा गातुविद इत्येतन्मन्त्रप्रशंसार्थमाख्यायिकामाह — ‘वासिष्ठो ह सात्यहव्यो देवभागं पप्रच्छ यत्सृञ्जयान्बहुयाजिनोऽयीयजो यज्ञे यज्ञं प्रत्यतिष्ठिपा३ यज्ञपता३विति स होवाच यज्ञपताविति सत्याद्वै सृञ्जयाः परा बभूवुरिति होवाच यज्ञे वाव यज्ञः प्रतिष्ठाप्य आसीद्यजमानत्यापराभावायेति देवा गातुविदो गातुं वित्त्वा गातुमितेत्याह यज्ञ एव यज्ञं प्रति प्रापयति यजमानस्यापराभावाय’ (सं. का. ६ प्र. ६ अ. २) इति।
वसिष्ठगोत्रोत्पन्नः सत्यहवस्य पुत्रो देवभागनामानं मुनिं प्रपच्छ, यदा सृञ्ज-याख्यदेशस्थान्बहुविधसोमयागानुष्ठायिनो याजितवानसि तदा किं यज्ञं स्वाहेत्येवं यज्ञलिङ्गके देवा गातुविद इत्येतस्मिन्मन्त्रे यज्ञं समिष्टयजुर्होमं समापितवानसि, उत यज्ञपतिं गच्छेत्येवं यज्ञपतिलिङ्गके यज्ञ यज्ञं गच्छेत्येतस्मिन्मन्त्र इति। तत्र द्वितीयपक्षे सति यस्मात्सत्याद्यज्ञात्पराभवंस्तस्मात्प्रथमपक्ष एवोपादेय इत्युत्तरम्।
अत्र विनियोगसंग्रहः – “धातानुवाके सर्वस्मिन्समिष्टाख्ययजूंषि हि। ऋचः षडाद्याः शेषाणि यजूंष्येतैर्जुहोति हि’ इति।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
साम् । 'मन्त्रे वृष' इति क्तिन उदात्तत्वम् । सविता सर्वस्य प्रेरयिता अभ्यनुज्ञाता वा प्रजापतिः परमेष्ठी । स एव विशेष्यते - निधिपतिः निधीयन्ते वेदाः पुरुषार्था वाऽस्मिन्निति तेषां पाता रक्षिता निधिपतिः । । 'परादिश्छन्दसि बहुळम्' इत्युत्तरपदाद्युदात्तत्वम्, इतरत्र तु 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । अग्निस्त्वष्टा विष्णुश्चैते धात्रादयस्सर्वे इदं हविर्जुषन्तां सेवन्ताम् । एते च धात्रादयो यज्ञतनुविशेषा देवता द्रष्टव्याः, यथा 'धाता दीक्षायाम्' इत्यादि । अधुना एत एवैकैकश उच्यन्ते । एष धात्रादिर्देवः प्रजया संरराणः सम्यग्रममाणः प्रजया उत्पत्त्या हेतुना यजमानाय द्रविणं वरिष्ठं प्रजादिं दधातु । रातेस्ताच्छीलिके चानशि शपश्श्लुः, रमतेर्वाऽन्त्यलोपः ॥