अनुवाकः 46 TS 1.4.46

(A46)

(म॒घवा॑नं-मन्दे॒-ह्य॑ग्ने॒-चतु॑र्दश च)

अनुवाकः 46 - Complete Audio

TS 1.4.46 - स्वरानुगामी

0:00 0:00
PS1.1 यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नो
PS1.2 ऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि
PS1.3 जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि
PS1.4 प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्यां
PS1.5 यस्मै॒ त्वꣳ सु॒कृते॑ जातवेद॒
PS1.6 उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नं
PS1.7 अ॒श्विनꣳ॒॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒
PS1.8 गोम॑न्तꣳ र॒यिं न॑शते स्व॒स्ति
PS1.9 त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न् काम॑कातयः
PS1.10 न त्वामि॒न्द्राति॑ रिच्यते
PS1.11 उ॒क्थौ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद
PS1.12 नी॒थेनी॑थे म॒घवा॑नꣳ - [
PS1.13 ]
PS2.1 सु॒तासः॑
PS2.2 यदीꣳ॑ स॒बाधः॑ पि॒तरं॒ न
PS2.3 पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते
PS2.4 अग्ने॒ रसे॑न॒ तेज॑सा॒ जात॑वेदो॒
PS2.5 वि रो॑चसे
PS2.6 र॒क्षो॒हाऽमी॑व॒चात॑नः
PS2.7 अ॒पो अन्व॑चारिषꣳ॒॒ रसे॑न॒ सम॑सृक्ष्महि
PS2.8 पय॑स्वाꣳ अग्न॒ आऽग॑मं॒ तं
PS2.9 मा॒ सꣳ सृ॑ज॒ वर्च॑सा
PS2.10 वसु॒र् वसु॑पति॒र्॒. हिक॒मस्य॑ग्ने वि॒भाव॑सुः
PS2.11 स्याम॑ ते सुम॒तावपि॑
PS2.12 त्वाम॑ग्ने॒ वसु॑पतिं॒ ॅवसू॑नाम॒भि प्र
PS2.13 म॑न्दे-[ ]
PS3.1 अद्ध्व॒रेषु॑ राजन्न्
PS3.2 त्वया॒ वाजं॑ ॅवाज॒यन्तो॑ जयेमा॒-ऽभिष्या॑म
PS3.3 पृथ्सु॒तीर् मर्त्या॑नां
PS3.4 त्वाम॑ग्ने वाज॒सात॑मं॒ ॅविप्रा॑ वर्द्धन्ति॒ सुष्टु॑तं
PS3.5 स नो॑ रास्व सु॒वीर्यं᳚
PS3.6 अ॒यं नो॑ अ॒ग्निर्वरि॑वः कृणोत्व॒यं
PS3.7 मृधः॑ पु॒र ए॑तु प्रभि॒न्दन्न्
PS3.8 अ॒यꣳ शत्रू᳚ञ्जयतु॒ जर्.हृ॑षाणो॒ऽयं ॅवाजं॑
PS3.9 जयतु॒ वाज॑सातौ
PS3.10 अ॒ग्निना॒ऽग्निः समि॑द्ध्यते क॒विर् गृ॒हप॑ति॒र् युवा᳚
PS3.11 ह॒व्य॒वाड्-जु॒ह्वा᳚स्यः
PS3.12 त्वꣳ ह्य॑ग्ने ( )
PS3.13 अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्थ्स॒ता
PS3.14 सखा॒ सख्या॑ समि॒द्ध्यसे᳚
PS3.15 उद॑ग्ने॒ शुच॑य॒स्तव॒वि ज्योति॑षा

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.46.1 TS 1.4.46.1
यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नो ऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्यां ॥ यस्मै॒ त्वꣳ सु॒कृते॑ जातवेद॒ उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नं । अ॒श्विनꣳ॒॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्तꣳ र॒यिं न॑शते स्व॒स्ति ॥ त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न् काम॑कातयः । न त्वामि॒न्द्राति॑ रिच्यते ॥ उ॒क्थौ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नꣳ - [ ]
पदपाठः (Word-by-word)
यः । त्वा॒ । हृ॒दा । की॒रिणा᳚ । मन्य॑मानः । अम॑र्त्यम् । मर्त्यः॑ । जोह॑वीमि ॥ जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ । यशः॑ । अ॒स्मासु॑ । धे॒हि॒ । प्र॒जाभि॒रिति॑ प्र - जाभिः॑ । अ॒ग्ने॒ । अ॒मृ॒त॒त्वमित्य॑मृत - त्वम् । अ॒श्या॒म् ॥ यस्मै᳚ । त्वम् । सु॒कृत॒ इति॑ सु - कृते᳚ । जा॒त॒वे॒द॒ इति॑ जात-वे॒दः॒ । उ । लो॒कम् । अ॒ग्ने॒ । कृ॒णवः॑ । स्यो॒नम् ॥ अ॒श्विन᳚म् । सः । पु॒त्रिण᳚म् । वी॒रव॑न्त॒मिति॑ वी॒र - व॒न्त॒म् । गोम॑न्त॒मिति॒ गो - म॒न्त॒म् । र॒यिम् । न॒श॒ते॒ । स्व॒स्ति ॥ त्वे इति॑ । स्विति॑ । पु॒त्र॒ । श॒व॒सः॒ । अवृ॑त्रन्न् । काम॑कातय॒ इति॒ काम॑ - का॒त॒यः॒ ॥ न । त्वाम् । इ॒न्द्र॒ । अतीति॑ । रि॒च्य॒ते॒ ॥ उ॒क्थ‌उ॑क्थ॒ इत्यु॒क्थे - उ॒क्थे॒ । सोमः॑ । इन्द्र᳚म् । म॒मा॒द॒ । नी॒थेनी॑थ॒ इति॑ नी॒थे - नी॒थे॒ । म॒घवा॑न॒मिति॑ म॒घ - वा॒न॒म् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे चतुर्थप्रपाठके चत्वारिंशोऽनुवाकः)

एकोनचत्वारिंशेऽनुवाके सोमयागः समापितः। अथास्य प्रपाठकस्यान्तिमेऽ-नुवाके काम्ययाज्यापुरोनुवाक्या उच्यन्ते।

इष्टिकाण्डे द्विहविष्का काचिदिष्टिरेवमाम्नायते — ‘अग्नये पुत्रवते पुरोडामष्टाकपालं निर्वपेदिन्द्राय पुत्रिणे पुरोडाशमेकाद-शकपालं प्रजाकामोऽग्निरेवास्मै प्रजां प्रजनयति वृद्धामिन्द्रः प्र यच्छति’ (सं. का. २ प्र. २ अ. ४) इति।

वृद्धां पुत्रपौत्रेणाभिवृद्धाम्।

तत्राऽऽग्नेयस्य पुरोनुवाक्यामाह — यस्त्वेति। जातवेदो योऽहं मर्त्यः सन्कीरिणा गुणकीर्तमशीलेन हृदा मनसा त्वाममर्त्यं मरणरहितं मन्यमान आह्वयामि, तादृशेष्वस्मासु पुत्रपौत्रदिरूपप्र-जाभिर्निष्पादितं यशः कीर्तिं निधेहि। हेऽग्ने त्वत्प्रसादादमृतत्वं देवत्वमश्यां प्राप्नुयाम्।

अथ याज्यामाह — यस्मै त्वमिति। शोभनं कर्म करोतीति सुकृत्। जातं जगद्वेत्तीति जातवेदाः। हे जातवेदोऽग्ने त्वं सुकृते यस्मै यजमानाय स्योनं सुखकरमुत्कृष्टं स्थानं कृणवः करोषि स यजमानो रयिं धनं स्वस्ति नशते सम्यक्प्राप्नोति। कीदृशं धनम् अश्वैः पुत्रैः शूरभटैर्गोभिश्च संयुतम्।

ऐन्द्रस्य पुरोनुवाक्यामाह — त्वे सु पुत्रेति। त्वे त्वयि। शवसो बलस्य। स्ववृत्रन्सुष्ठु वर्तन्ते। कामा भोगाः काम्यन्ते याभिः स्तुतिभिस्ताः कामकातयः। इन्द्रस्यातिप्रबलत्वाच्छवसः पुत्रेत्युपचर्यते। हे शवसः पुत्रेन्द्रास्मदीयस्तुतयस्त्वयि सुष्ठु वर्तन्ते, काचिदपि स्तुतिस्त्वां नातिरिच्यते। सर्वस्य स्तुतुवाक्यस्य त्वयि विद्यमानत्वात्।

अथ याज्यामाह — उक्थ इति। उक्थउक्थे सोमयागवर्तिनि तत्तच्छस्रे स सोम इन्द्रं ममाद हर्षयामास। नीयत आहूयत इन्द्रोऽत्रेति नीथो यागप्रदेशः। समानदक्षा-स्तुल्येषु यजमानेषु कुशलाः सुतासः पुत्रस्थानीया यजमानाः पितृस्थानीयं मघवानं नीथेनीथे तत्तद्यागप्रदेशेऽवसे रक्षार्थं हवन्त आह्वयन्ति। यदीं सबाधो यस्मादीदृश आहूतो मघवा विरोधिष्वसुरेषु बाधकारी तस्मादाह्वयन्ते। पुत्राः पितरं न पितरमिव। यथा बाला अन्यैस्ताडयमाना रक्षार्थं पितरमाह्व-यन्ति तद्वत्।

इष्टयन्तरं विधत्ते — ‘अग्नये रसवतेऽजक्षीरे चरुं निर्वपेद्यः कामयेत रसवन्त्स्यामित्यग्निमेव रसवन्त स्वेन भागधेयेनोप धावति स एवैन रसवन्तं करोति भवत्यजक्षीरे भवत्याग्नेयी वा एषा यदजा साक्षादेव रसमव रुन्धे’ (सं. का. २ प्र. २ अ. ४) इति।

रसवान्क्षीरदध्यादिरसोपेतः। अजाया अग्निवत्प्रजापतिमुखादुत्पन्नत्वादाग्ने-यत्वम्। साक्षादव्यवधानेन शीघ्रमित्यर्थः।

तत्र पुरोनुवाक्यामाह — अग्ने रसेनेति। हे जातवेदोऽग्ने रसनास्मान्योजय। तेजसा विशेषेण प्रकाशसे। कीदृशस्त्वम्। यागदेशे रक्षसां हन्ता। शरीरेऽमीवस्याऽऽन्तररोगस्य चातनो विनाशकः। याज्या लिखिता। उरु हि राजा वरुणश्चकारेत्यस्मिन्ननुवाके व्याख्यातो मन्त्रः।

इष्ट्यन्तरं विधत्ते — “अग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेत वसुमान्त्स्यामित्य-ग्निमेव वसुमन्त स्वेन भागधेयेनोप धावति स एवैनं वसुमन्तं करोति वसुमानेव भवति” (सं. का. २ प्र. २ अ. ४) इति।

तत्र पुरोनुवाक्याह — वसुरिति। हेऽग्ने हिकं यस्मात्कारणात्त्वं वसुर्लोकानां वासि(सयि)ता धन पतिः प्रजायुक्त(तिस्तेजोधन)श्चासि तस्माद्वयमपि तवानुग्रहबुद्धाववस्थिता भवेम।

याज्यामाह — त्वामग्न इति। हे राजन्दीप्तिमन्नग्नेऽध्वरेषु यज्ञेषु त्वामभिप्रमन्दे सर्वतः प्रकर्षेण तोषयामि। कीदृशं त्वाम्। वसूनां वसुपतिं धनानां मध्ये यानि श्रेष्ठानि धनानि तेषामधिपतिमित्यर्थः। वाजयन्तोऽन्नमिच्छन्तो वयं त्वात्प्रसादेन वाजमन्नं जयेम। विरोधिनां मनुष्याणां पृत्सुतीः सेनाः अभिष्यामाभिभवितुं शक्ता भवेम।

इष्ट्यन्तरं विधत्ते — ‘अग्नये वाजसृते पुरोडाशमष्टाकपालं निर्वपेत्संग्रामे संयत्ते वाजं वा एष सिसीर्षति यः संग्रामं जिगीषत्यग्निः खलु वै देवानां वाजसृदग्निमेव वाजसृत स्वेन भागधेयेनोप धावति धावति वाज हन्ति वृत्रं जयति त संग्राममथो अग्निरिव न प्रतिधृषे भवति’ (सं. का. २ प्र. २ अ. ४) इति।

वाजमन्नं सरति प्राप्नोतीति वाजसृत्। लोके युद्धं जेतुमिच्छुर्जयादूर्ध्वं वैरिसंबद्धमन्नं कृत्स्नं प्राप्तुमिच्छति। अतो वाजसृदिति विशेषणं युक्तम्। वाजं धावति प्राप्नोति तदर्थं वृत्रं हन्ति युद्धं च जयति। किंचाग्निरिवायमन्येन प्रतिधृषे तिरस्कर्तुं शक्तो न भवति।

त्वामग्न इति। हेऽग्ने त्वां विप्रा यजमाना अभिवृद्धिं प्रापयन्ति। कीदृशं त्वाम्। वाजसातममतिशयेनान्नप्रदं सुष्टुतं स्तोत्रैर्हि सुष्ठु स्तुतम्। स तादृशस्त्वं नोऽस्माकं सुष्ठु सामर्थ्यं रास्व देहि।

याज्यामाह — अयं नो इति। अयमग्निरस्माकं वरिवः परिचारकं भृत्यवर्गं संपादयतु। मृधो वैरिणो विदारयन्नोऽस्माकं पुरतो गच्छतु। जर्हृषाणः प्रहरञ्शत्रूञ्जयतु। वाजसातावन्नदाननिमित्तं परकीयमन्नं जयतु।

इष्ट्यन्तरं विधत्ते — “अग्नयेऽग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुर्निर्दिष्टभागो वा एतयोरन्योऽनिर्दिष्टभागोऽन्यस्तौ संभवन्तौ यजमानमभि संभवतः स ईश्वर आर्तिमार्तोर्यदग्नेऽग्निवते निर्वपति भागधेयेनैवैनौ शमयति नाऽऽर्तिमार्च्छति यजमानः” (सं. का. २ प्र. २ अ. ४) इति।

गार्हपत्यादाहवनीयेऽग्निं प्रक्षिप्य तत्राग्निहोत्रं हूयते। तथा सति यस्य यज-मानस्य संबन्धिनः पुरुषा विस्मृत्योद्धृत आहवनीयाग्नौ पुनरन्यमग्निमुद्धरेयुः स यजमानोऽग्नियुक्तायाग्नये निर्वपेत्। तत्र विशष्यरूपोऽग्निर्निर्दिष्टभागो विशेषण-रूपस्त्वनिर्दिष्टभागस्तावुभौ परस्परं संसृज्यमानौ यजमानं भक्षयितुमभिलक्ष्य संभवतः। ततः स यजमान अर्तिमार्तोरीश्वरो विनाशं प्राप्तुं संप्रभवति। तावग्नी अनयेष्ट्या शाम्यतः।

तत्र पुरोनुवाक्यामाह — अग्निनेति। पश्चात्प्रक्षिप्तेनाग्निना पूर्वस्थितोऽग्निः सम्यग्दीप्यते। सोऽग्निर्वि-शेषणैः कविरित्यादिभिर्विशिष्टः।

याज्यामाह — त्व ह्यग्न इति। हे पूर्वस्थिताग्ने पश्चात्प्रक्षिप्तेनाग्निना त्वं समिध्यसे। तादृशस्त्वं ब्राह्मणजात्यभिमानी सन्मार्गवतीं प्रियश्च। इतरोऽपि तादृश एव।

इष्ट्यन्तरं विधत्ते — ‘अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेत्’ (सं. का. २ प्र. २ अ. ४) इति।

यस्य यजमानस्याग्निहोत्रार्थमुद्धृतोऽग्निर्होमात्पूर्वमेवोपशाम्यति स एतामिष्टिं निर्वपेत्।

अत्र शास्रान्तरानुसारिणां मतं पूर्वपक्षत्वेनोपन्यस्यति — ‘अपर आदीप्यानूद्धृत्य इत्याहुः’ (सं. का. २ प्र. २ अ. ४) इति।

अपरोऽग्निर्गार्हपत्ये प्रदीप्य पूर्वोद्धरणमनु पुनरुद्धरणीय इति तन्मतम्।

तदिदं दूषयति — ‘तत्तथा न कार्यं यद्भागधेयमभि पूर्व उद्ध्रियते किमपरोऽभ्युद्ध्रियेतेति’ (सं. का. २ प्र. २ अ. ४) इति।

अग्निहोत्रहविर्लक्षणो(णं) यद्भागधेयमभिलक्ष्य पूर्वो वह्निरुद्धृतस्तमेव भागमभिलक्ष्यापरो वह्निः किमुद्ध्रियेत तदनुचितम्। इतिशब्दो हेतौ। तस्मान्नकार्यम्।

सिद्धान्तं विधत्ते — ‘तान्येवावक्षाणानि संनिधाय मन्थेत्’ (सं. का. २ प्र. २ अ. ४) इति।

यान्युल्मुकानि शान्तानि तान्येवाधस्तादवस्थाप्यारणीभ्यामग्निमन्थनं कुर्यात्।

मन्थने मन्त्रमुत्पादयति — ‘इतः प्रथमं जज्ञे अग्निः स्वाद्योनेरधि जातवेदाः। स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्निति’ (सं. का. २ प्र. २ अ. ४) इति।

अग्निः पूर्वमितो दग्धकाष्ठादुत्पन्न इदानीमपि स जातवेदा गायत्र्यादि-भिश्छन्दोभिरनुगृहीतः स्वाद्योनेर्दग्धकाष्ठादधिजायताम्। जातश्च तं तं देवं प्रजानन्देवेभ्यो हव्यं वहतु।

मन्त्रस्य तात्पर्यं व्याचष्टे — ‘छन्दोभिरेवैन स्वाद्योनेः प्र जनयति’ (सं. का. २ प्र. २ अ. ४) इति।

नन्वस्मिन्सिद्धन्तेऽपि पूर्वपक्षादपरोऽग्निः प्रसज्येतेत्याशङ्कयाऽऽह — ‘एष वाव सोऽग्निरित्याहुः’ (सं. का. २ प्र. २ अ. ४) इति।

स्वकारणादुत्पन्नत्वादेष एव पूर्वोऽग्निर्न तु भेदोऽस्तीति सिद्धान्तित आहुः।

किमर्था तर्हीयमिष्टिरित्याशङ्कयाऽऽह — ‘ज्योतिस्त्वा अस्य परापतितमिति यदग्नये ज्योतिष्मते निर्वपति यदेवास्य ज्योतिः परापतितं तदेवाव रुन्धे’ (सं. का. २ प्र. २ अ. ४) इति।

अस्य पूर्वाग्नेर्ज्योतिरेव विनष्टं न त्वग्निर्विनष्टः। तच्च ज्वालारूपं ज्योतिरिष्ट्या संपाद्यते।

तत्र याज्यापुरोनुवाक्ययोचोः प्रतीकं(के) दर्शयति — उदग्न इति। उदग्ने शुचयस्तव शुक्रा भ्राजन्त इत्ययं मन्त्रस्त्वमग्ने रुद्र इत्यस्मिन्ननुवाके व्याख्यातः। वि ज्योतिषा बृहतेत्ययं मन्त्रं कृणुष्व पाज इत्यस्मिन्ननुवाके व्याख्यातः।

अत्र विनियोगसंग्रहः -

“यस्त्वा याज्या पुत्रवत्यामिष्टौ त्वे पुत्रयागके।

अग्ने रसवद्यागे तु वसुर्वसुमतीष्यते॥१॥

त्वामग्ने वाजसृद्यागे ह्यग्निनाऽग्निवतीष्यते।

उदविज्योतिषे ज्योतिष्मत्ये तत्र चतुर्दश॥२॥ इति।

अथ मीमांसा।

नवमाध्यायस्यचतुर्थपादे चिन्तितम् — “ज्योतिष्मती भवेन्नो वा दर्शाद्युद्धृतलोपने।

निमित्तसत्त्वात्स्यान्नाग्निहोत्रार्थोद्धृतिवर्जनात्” इति॥

अग्निहोत्रप्रक्रियायामिदमाम्नायते - “अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निरुद्धृतोऽग्निहोत्र उद्वायेत्” इति। प्रतिदिनमग्निहोत्रं होतुं गार्हपत्यादुद्धृत्याऽऽहवनीयेऽग्निः प्रक्षिप्यते। सोऽयमुद्धृतोऽग्निः कदाचिद-हुतेऽग्निहोत्रे यदि शाम्येत्तदानीमियमिष्टिः प्रायश्चित्तमित्यर्थः। तत्र दर्शपूर्ण-मासार्थमुद्धृतस्याप्यग्नेः शान्तौ सेयं ज्योतिष्मतीष्टिर्भवेत्। कुतः। अग्न्युद्वानस्य निमित्तस्य सद्भावादिति चेन्मैवम्। अग्निहोत्रर्थोद्धृतस्यैवाग्नेरुद्वानं निमित्तमिति प्रकरणादवगम्यते। अनया चेष्टयाऽग्निहोत्रयैवाग्निः पुनरुत्पाद्यते। तथा सत्यग्निहोत्रस्येयमिष्टिः सामवायिकमङ्गं भवति। अतोऽग्नित्रार्थोद्धृतोद्वानस्य निमित्तस्याभावान्नैमित्तिकीष्टिर्न प्रवर्तते।

तत्रैवान्यच्चिन्तितम् —

“धार्योद्वाने साऽस्ति नो वा सर्वार्थत्वेन विद्यते।

गतश्रीत्वनिमित्तं तत्सर्वार्थत्वं न विद्यते” इति॥

इदमाम्नायते — “धार्यो गतश्रिय आहवनीयः” इति। गतश्रीशब्दार्थस्त्वेवं श्रूयते — “त्रयो वै गतश्रियः शुश्रुवान्ग्रामणी राजन्यः” इति। और्वो गौतमो भारद्वाज इति कल्पसूत्रकारः। गतश्रीभिर्धार्यमाणस्यऽऽहवनीयस्य सर्वकर्मार्थत्वे सत्यग्निहोत्रार्थत्वमप्यस्तीति तदुद्वाने सा ज्योतिष्मतीष्टिर्विद्यत इति चेन्मैवम्। न ह्यस्य धारणेऽग्निहोत्रं निमित्तं किंतु गतश्रीत्वम्। सर्वकर्मसमुदायस्य चोदनया कदाचिदप्यचोदितत्वात्सर्वार्थत्वं शङ्कितुमप्यशक्यम्। गतश्रीत्वं निमित्तीकृत्य धृतोऽग्निः प्रसङ्गात्सर्वकर्मसूप-कुर्वन्नग्निहोत्रेऽप्युपकरोतीति चेत्। उपकरोतु नाम, नैतावता प्रायश्चित्तस्य निमित्तत्वं लभ्यते। अग्निहोत्रार्थमुद्धृतस्योद्वानं तन्निमित्तं, न चात्र तदस्ति। किंत्वन्यस्य यस्य कस्यचित्कर्मणोऽर्थे समुद्धृतस्य गतश्रीत्वनिमित्तं धारणं क्रियते। तस्मान्निमित्ताभावान्नास्ति सेष्टिः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके चत्वारिंशोऽनुवाकः॥४०॥

—--------------------------------------------------------

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

एवमाध्वरिका मन्त्रा अवभृथान्तास्समाप्ताः । अतः परमन्त्योनुवाको याज्या, वैश्वदेवं काण्डम् ॥

1 तत्र 'अग्नये पुत्रवते पुरोडाशमष्टाकपालं निर्वपेदिन्द्राय पुत्रिणे पुरोडाशमेकादशकपालं प्रजाकामः' इत्यस्याग्नेयस्य पुरोनुवाक्या - यस्त्वेति त्रिष्टुप् । इयादेशद्वयेन तृतीयपादः पूर्यः ॥ हे अग्ने जातवेदः जातानां वेदितः जातधन वा, योहं मर्त्यः मरणधर्मा मनुष्यः त्वाममर्त्यममरणधर्माणं हृदा मनसा कीरिणा कीर्तयता गुणकीर्तनशीलेन । कीर्तयतेर्ण्यन्तात् 'अच इः' इतीप्रत्यये धातोरन्त्यलोपश्छान्दसः । ईदृशेन हृदयेन त्वां मन्यमानः जानन् जोहवीमि भृशमाह्वयामि । ह्वयतेः 'अभ्यस्तस्य च' इति सम्प्रसारणम् । यद्वा - त्वदर्थमिदं हविर्जुहोमि । उभयत्रापि यङ्लुगन्ताल्लट्, 'अनुदात्ते च' इत्याद्युदात्तत्वम् । येषां सम्बन्धी तवाह्वाताहं, तेष्वस्मासु पुत्रपौत्रेषु यशो धेहि स्थापय यशस्विनस्सर्वानस्मान्कुरु । किञ्च - ताभिः प्रजाभिः षुत्रादिभिरविच्छिन्नाभिस्सहाहममृतत्वं दीर्घायुष्यमश्यां प्राप्नुउयाम् । व्यत्ययेन परस्मैपदम् ॥
2 तत्रैव याज्या - यस्मा इति त्रिष्टुप् । वीरवन्तमिति तृतीयपादान्तः ॥ हे अग्ने जातवेदः यस्मै सुकृते शोभनानि कर्माणि कृतवते । उ इत्यवधारणे । (यस्त्वा समिष्टयजूंषि 'उकाररूपः प्लुत उदात्तः' इत्युदात्तः प्लुतः ।) यस्मा एव यदर्थमेव स्योनं सुखं लोकं स्थानं कृणवः कुर्याः । कृवि हिंसाकरणयोः, लेट्, 'धिन्विकृण्व्योर च' इत्युप्रत्ययः, 'लेटोडाटौ' इत्यडागमः । स एव अश्वादिसहितं रयिं धनं स्वस्ति अविच्छेदेन नशते प्राप्नोति । नशतिर्गतिकर्मा । स एव त्वत्प्रसादाद्बह्वश्वो भवति, अश्वपुत्रपौत्रादिमांश्च भवति, अन्यैश्च विक्रान्तैः पुरुषैस्तद्वान् भवति, गोमहिष्यादिसङ्घातस्वामी महाधनश्च भवतीति ॥
3 अथैन्द्रस्य पुरोनुवाक्या - त्वे इति गायत्री ॥ त्वे त्वयि । 'सुपां सुलुक्' इति सप्तम्येकवचनस्य शेआदेशः । हे शवसो बलस्य पुत्र । महाबलश्च बलाज्जात इत्युपचर्यते । 'परमपिच्छन्दसि' इति परमपि षष्ठ्यन्तं पूर्वमामन्त्रितं प्रत्यङ्गवद्भवतीति षष्ठ्यन्तामन्त्रितसमुदायस्याष्टमिकमामन्त्रितसर्वानुदात्तत्वम् । कामकातयस्सुतयः कामा वाञ्छितानि कायन्ते प्रार्थ्यन्ते याभिस्ताः कामकातयः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । तास्त्वय्येव स्ववृत्रन् शोभनं वर्तन्ते त्वय्येव महाबले क्रियमाणास्सुतुतयश्शोभन्ते, न पुरुषान्तरवदनर्थकाभिधानतां प्रतिपद्यन्ते । वृतेश्छान्दसो लुङ्, 'द्युद्भ्यो लङि' इति परस्मैपदम्, द्युतादित्वादङ्, 'बहुळं छन्दसि' इति रुट् । यदुक्तं त्वय्येव स्तुतयश्शोभनवृत्तय इति तदेव समर्थयते - हे इन्द्र तासां स्तुतीनां मध्ये एकापि त्वां नातिरिच्यते त्वां विहाय न प्रवर्तते सर्वा अपि त्वद्विषया एवात्मानं लभन्ते ॥
4 तत्रैव याज्या - उक्थउक्थ इति त्रिष्टुप् ॥ उक्थउक्थे शस्त्रेशस्त्रे सोम इन्द्रं ममाद मादयति तर्पयति । मदेर्ण्यन्ताच्छान्दसो लिट्, 'बहुलमन्यत्रापि' इति णिलुक् । 'अनुदात्तं च' इति द्वितीयस्योक्थशब्दस्यानुदात्तत्वम् । किञ्च - नीथेनीथे स्तोत्रेस्तोत्रे सुतासः अभिषुतास्सोमाः मघवानं महाधनं इन्द्रं मादयति । आज्जसेरसुक् । किञ्च - यत् यदा खलु सबाधः बाधासहिताः शस्त्रादिभिर्बाधिता भवन्ति पुरुषाः । व्यत्ययेन समासान्तोदात्तत्वम् । तदा तेपि पितरन्न पितरमिव पुत्राः अवसे रक्षणाय इन्द्रमेव हवन्ते ह्वयन्ति । पूर्ववत्सम्प्रसारणम् । ईमित्यवधारणे । समानदक्षाः, दक्षः पिता, समानपितृका इत्यर्थः । इन्द्र एव सर्वेषां समानः पितेति ॥
5 'अग्नये रसवतेजक्षीरे चरुं निर्वपेद्यः कामयेत रसवान् स्याम्' इत्यस्य पुरोनुवाक्या- अग्ने रसेनेति गायत्री ॥ हे अग्ने जातवेदस्तेजसा रोचसे दीप्यसे । केन हेतुना? रसेन रसयोगो मम यथा स्यादिति । यद्वा - रसेन मां योजयितुं तेजसा विरोचसे विशेषेण दीप्यस्व । यद्वा - तद्धेतुत्वात्ताच्छब्द्यम्, यथा नड्वलोदकं पादरोग इति, अस्मद्रसहेतुना तेजसा विरोचसे इति । इदं चास्त्वित्याह - रक्षोहा रक्षसां हन्ता अमीवचातनः अमीवानामाभ्यन्तररोगाणां च नाशयितास्माकं भव । क्षीरादिरससमृद्धिमस्माकं कुरु तद्भोगविघ्नहेतूंश्च रक्षःप्रभृतीन् सर्वांश्च रोगान्नाशयेत्यभिप्रायः ॥
6 तत्रैव याज्या - अप इत्यनुष्टुप् ॥ व्याख्याता चेयं 'उरुं हि' इत्यत्र । अपः कर्माण्यनुक्रमेण करोमि । रसेन संसृष्टो भूयासम् । हे अग्ने पयस्वान् हविष्मान् त्वामागमं तम्मा वर्चसा बलेन संसृजेति ॥
7 'अग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेत वसुमान् स्याम्' इत्यस्य पुरोनुवाक्या - वसुर्वसुपतिरिति गायत्री ॥ हे अग्ने वसुर्वासयिता सर्वस्य लोकस्य वसुपतिः धनानां स्वामी चात एव वासयिता इर्दृशस्त्वमसि । किञ्च - विभावसुस्तेजोधनश्च त्वमसि दातासि धनानामित्यर्थः । हिकं यस्मादेवं तस्मात्ते तव सुमतौ कल्याण्यामनुग्रहबुद्धौ वयं स्याम भूयास्म । अपिशब्दाद्वसुमन्तश्च स्याम । 'मन्क्तिन्व्याख्यान' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - क्तिचि कृदुत्तरपदप्रकृतिस्वरत्वम् । क्तिन्येव वा 'तादौच निति' इत्येतद्बाधित्वाकृदुत्तरपदप्रकृतिस्वरत्वम् । उत्तरपदे वा 'मन्त्रे वृष्' इति क्तिन उदात्तत्वम् ॥
8 तत्रैव याज्या - त्वामग्न इति त्रिष्टुप् ॥ हे अग्ने अध्वरेषु राजन् चरुपुरोडाशादिभिर्दीप्यमान त्वां वसूनां सर्वेषां सम्बन्धिनं नैकस्य द्वयोर्वा वसुपतिं वसूनां नित्यस्वामिनम् । इदं समासव्यासाभ्यां प्रतिपाद्यते । ईदृशं त्वामभिप्रमन्दे आभिमुख्येन तर्पयामि । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । कश्चिदाह - वसूनां देवानां मध्ये वसुपतिमिति । किञ्च - वाजयन्तः वाजमन्नमात्मन इच्छन्तः । क्यचि 'न छन्दस्यपुत्रस्य' इतीत्वप्रतिषेधः । यदा वयं वाजमिच्छामस्तदा त्वया वाजं जयेम त्वयैव प्राप्नुयाम । किञ्च - मर्त्यानां मध्ये पृत्स्तुतीः पृतनां कर्तुं या अस्माभिरिच्छन्ति ताश्शत्रुसेना अभिष्यामाभिभवेम । 'उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' इति षत्वम् । पृदिति सङ्ग्रामकर्म । तस्मात्सङ्ग्रामयितुमिछन्तीति सन्, छान्दसोभ्यासलोपः, विकरणव्यत्ययेन शः, वर्णव्यत्ययेन शतुरकारस्योकारः, 'शतुरनुमः' इति नद्या उदात्तत्वम् । यद्वा - पृतनास्सूयन्ते उत्पाद्यन्ते याभिस्ताः पृत्सुतयः । छान्दसं ह्रस्वत्वं, पृद्भावश्च । बहुविकारत्वान्नावगृह्यते । 'मक्तिन्व्याख्यान' इत्युत्तरपदान्तोदात्तत्वम् ॥
9 'अग्नये वाजसृते पुरोडाशमष्टाकपालं निर्वपेत्सङ्गामे संयत्ते' इत्यस्य पुरोनुवाक्या - त्वामग्ने वाजसातममिति गायत्री ॥ हे अग्ने त्वां वाजसातमं वाजस्यान्नस्य सम्भक्तृतमम् । सनोतेः 'जनसनखनक्रमगमो विट्', 'विड्वनोरनुनासिकस्यात्' इत्यात्वम् । सुष्टुतं सर्वैस्सुष्ठु स्तुतम् । यद्वा - सुष्ठु स्तुतो यथा भवसि तथा त्वां विप्रा मेधाविनो वर्धन्ति स्तुतिभिस्त्वां वर्धयन्तीत्यर्थः । 'बहुलमन्यत्रापि' इति णिलुक् । यद्वा - 'छन्दस्यूभयथा' इति शप आर्धधातुकत्वाण्णिलोपः । स्तौतेः कर्मणि निष्ठायां 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वं, 'उपसगार्त्सुनोति' इत्यादिना षत्वम् । स त्वं नः अस्मभ्यं सुवीर्यं शोभनवीर्यं धनं वाजलक्षणं रास्व देहि । व्यत्ययेनात्मनेपदम्, 'वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् ॥
10 तत्रैव याज्या - अयं न इति त्रिष्टुप् ॥ व्याख्याता चेयं 'त्वं सोम' इत्यत्र । अयमग्निरस्माकं वरिवो धनं कृणोतु । अयं मृधस्सङ्ग्रामान् प्रभिन्दन् पुरस्तादेतु । अयं जर्हृषाणस्सङ्ग्रामजयेन हृष्टान्तःकरणश्शत्रून् जयतु । अयं वाजमन्नं नयतु वाजसातौ वाजलाभहेतौ सङ्ग्रामे इति ॥
11 'अग्नयेग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुः' इत्यस्य पुरोनुवाक्या - अग्निनाग्निरिति गायत्री ॥ अग्निनाभ्युद्दृतेनायमग्निः पूर्वोद्धृतः समिध्यते सम्यगेव इध्म उद्वायते [सम्यगेव इध्यते] । कविर्मेधावी गृहपतिर्गृहस्य पतिस्स्वामी । युवा नित्यतरुणः, हविर्भिर्वा देवानामात्मनश्च मिश्रयिता । हव्यवाट् हविषां वोढा । 'वहश्च' इति ण्विः । जुह्वास्यः जुहूरास्यस्थानीया यस्य । सोयमेवं गुणोग्निरभ्युद्धरणदोषमुपशमयत्विति शेषः ॥
12 तत्रैव याज्या - त्वं ह्यग्न इति गायत्री ॥ हे अग्ने त्वमग्निनाभ्युद्धृतेन समिध्यसे सम्यगेवेध्यसे । कीदृशः कीदृशेनेत्याह - विप्रो मेधावी विप्रेण मेधाविना समिध्यसे । अयमकेस्समिन्धनहेतुः । किञ्च - सन् प्राज्ञः स तादृशेनाग्निना समिध्यसे । 'हि च' इति निघातप्रतिषेधः, 'तिङि चोदात्तवति' इति गतेरनुदात्तत्वं, 'उहात्तवता तिङा' इति समासः, अदुपदेशाल्लसार्वधातुकानुदात्तत्वे यक उदात्तत्वम् । ईदृशस्त्वमभ्युद्धरणदोषमुपशमयेति शेषः ॥
13 'अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निरुद्धृतोहुतेग्निहोत्र उद्वायेत्' इत्यस्य पुरोनुवाक्या - उदग्न इति गायत्री ॥ व्याख्याता चेयं 'त्वमग्ने रुद्रः' इत्यत्र । इह तु प्रतीकमस्या गृह्यते । हे अग्ने तव शुक्रास्तेजोविशेषाः शुचयश्शुद्धाः भ्राजन्तः दीप्यमानाः उदीरते उद्गच्छन्ति । किञ्च - तवैव स्वभूतानि ज्योतींष्य्ष्दित्यादीनि अर्चयोर्चींषि च । यद्वा - तव अर्चयोर्चयितारो यजमानाः ज्योतींषि ज्योतीरूपा भवन्ति स त्वमेवं महानुभावः उद्वापदोषमुपशमयेति ॥
14 तत्रैव याज्या - वि ज्योतिषेति त्रिष्टुप् ॥ इयमपि 'कृणुष्वपाजः' इत्यत्र व्याख्याता । इह तु प्रतीकं गृह्यते । अयमग्निर्बृहता ज्योतिषा विभाति विशेषेण भायात् अनेन हविषा । किञ्च - विश्वानि महित्वा माहात्म्यानि आविष्कृणुते आविष्कुर्वीत । किञ्च - अदेवीः अदेवनशीला आसुरीर्मायाः दुरेवाः दुष्प्रधर्षाः प्रसहते अभिभवेत् । किञ्च - शृङ्गे शृङ्गस्थानीये आत्मीये प्रधाने ज्वाले शत्रूणां वा हिंसके शिशीते तीक्ष्णीकुर्यात् । किमर्थम्? रक्षसे विनिक्षे रक्षसो विनाशार्थं ज्वालाभ्यां निक्षणं चुम्बनं शोधनं वा विनाशोवेति स एव महानुभावोग्निरनुगमनदोषमुपशमय्यात्मनः परापतितं ज्योतिरवरुन्ध इति ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमकाण्डे चतुर्थप्रपाठके चत्वारिंशोनुवाकः ॥

समाप्तः प्रपाठकः ॥

—----------------------------------

पञ्चशत् 2 #
TS 1.4.46.2 TS 1.4.46.2
सु॒तासः॑ । यदीꣳ॑ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते ॥ अग्ने॒ रसे॑न॒ तेज॑सा॒ जात॑वेदो॒ वि रो॑चसे । र॒क्षो॒हाऽमी॑व॒चात॑नः ॥ अ॒पो अन्व॑चारिषꣳ॒॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाꣳ अग्न॒ आऽग॑मं॒ तं मा॒ सꣳ सृ॑ज॒ वर्च॑सा ॥वसु॒र् वसु॑पति॒र्॒. हिक॒मस्य॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒तावपि॑ ॥ त्वाम॑ग्ने॒ वसु॑पतिं॒ ॅवसू॑नाम॒भि प्र म॑न्दे-[ ]
पदपाठः (Word-by-word)
सु॒तासः॑ ॥ यत् । ई॒म् । स॒बाध॒ इति॑ स - बाधः॑ । पि॒तर᳚म् । न । पु॒त्राः । स॒मा॒नद॑क्षा॒ इति॑ समा॒न-द॒क्षाः॒ । अव॑से । हव॑न्ते ॥ अग्ने᳚ । रसे॑न । तेज॑सा । जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ । वीति॑ । रो॒च॒से॒ ॥ र॒क्षो॒हेति॑ रक्षः - हा । अ॒मी॒व॒चात॑न॒ इत्य॑मीव - चात॑नः ॥ अ॒पः । अन्विति॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । समिति॑ । अ॒सृ॒क्ष्म॒हि॒ ॥ पय॑स्वान् । अ॒ग्ने॒ । एति॑ । अ॒ग॒म॒म् । तम् । मा॒ । समिति॑ । सृ॒ज॒ । वर्च॑सा ॥ वसुः॑ । वसु॑पति॒रिति॒ वसु॑ - प॒तिः॒ । हिक᳚म् । असि॑ । अ॒ग्ने॒ । वि॒भाव॑सु॒रिति॑ वि॒भा - व॒सुः॒ ॥ स्याम॑ । ते॒ । सु॒म॒ताविति॑ सु-म॒तौ । अपि॑ ॥ त्वाम् । अ॒ग्ने॒ । वसु॑पति॒मिति॒ वसु॑ - प॒ति॒म् । वसू॑नाम् । अ॒भि । प्रेति॑ । म॒न्दे॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.4.46.3 TS 1.4.46.3
अद्ध्व॒रेषु॑ राजन्न् । त्वया॒ वाजं॑ ॅवाज॒यन्तो॑ जयेमा॒-ऽभिष्या॑म पृथ्सु॒तीर् मर्त्या॑नां । त्वाम॑ग्ने वाज॒सात॑मं॒ ॅविप्रा॑ वर्द्धन्ति॒ सुष्टु॑तं । स नो॑ रास्व सु॒वीर्यं᳚ ॥ अ॒यं नो॑ अ॒ग्निर्वरि॑वः कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन्न् ॥ अ॒यꣳ शत्रू᳚ञ्जयतु॒ जर्.हृ॑षाणो॒ऽयं ॅवाजं॑ जयतु॒ वाज॑सातौ ॥ अ॒ग्निना॒ऽग्निः समि॑द्ध्यते क॒विर् गृ॒हप॑ति॒र् युवा᳚ । ह॒व्य॒वाड्-जु॒ह्वा᳚स्यः ॥ त्वꣳ ह्य॑ग्ने ( ) अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्थ्स॒ता । सखा॒ सख्या॑ समि॒द्ध्यसे᳚ ॥उद॑ग्ने॒ शुच॑य॒स्तव॒वि ज्योति॑षा॥
पदपाठः (Word-by-word)
अ॒द्ध्व॒रेषु॑ । रा॒ज॒न्न् ॥ त्वया᳚ । वाज᳚म् । वा॒ज॒यन्त॒ इति॑ वाज - यन्तः॑ । ज॒ये॒म॒ । अ॒भीति॑ । स्या॒म॒ । पृ॒थ्सु॒तीः । मर्त्या॑नाम् ॥ त्वाम् । अ॒ग्ने॒ । वा॒ज॒सात॑म॒मिति॑ वाज - सात॑मम् । विप्राः᳚ । व॒र्ध॒न्ति॒ । सुष्टु॑त॒मिति॒ सु - स्तु॒त॒म् ॥ सः । नः॒ । रा॒स्व॒ । सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ॥ अ॒यम् । नः॒ । अ॒ग्निः । वरि॑वः । कृ॒णो॒तू॒ । अ॒यम् । मृधः॑ । पु॒रः । ए॒तु॒ । प्र॒भि॒न्दन्निति॑ प्र - भि॒न्दन्न् ॥ अ॒यम् । शत्रून्॑ । ज॒य॒तु॒ । जर्.हृ॑षाणः । अ॒यम् । वाज᳚म् । ज॒य॒तु॒ । वाज॑सात॒विति॒ वाज॑-सा॒तौ॒ ॥ अ॒ग्निना᳚ । अ॒ग्निः । समिति॑ । इ॒द्ध्य॒ते॒ । क॒विः । गृ॒हप॑ति॒रिति॑ गृ॒ह - प॒तिः॒ । युवा᳚ ॥ ह॒व्य॒वाडिति॑ हव्य - वाट् । जु॒ह्वा᳚स्य॒ इति॑ जु॒हु - आ॒स्यः॒ ॥ त्वम् । हि । अ॒ग्ने॒ ( ) । अ॒ग्निना᳚ । विप्रः॑ । विप्रे॑ण । सन्न् । स॒ता ॥ सखा᳚ । सख्या᳚ । स॒मि॒द्ध्यस॒ इति॑ सम् - इ॒द्ध्यसे᳚ ॥ उदिति॑ । अ॒ग्ने॒ । शुच॑यः । तव॑ । वीति॑ । ज्योति॑षा ॥
पदसंख्या: 64