पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे चतुर्थप्रपाठके चत्वारिंशोऽनुवाकः)
एकोनचत्वारिंशेऽनुवाके सोमयागः समापितः। अथास्य प्रपाठकस्यान्तिमेऽ-नुवाके काम्ययाज्यापुरोनुवाक्या उच्यन्ते।
इष्टिकाण्डे द्विहविष्का काचिदिष्टिरेवमाम्नायते — ‘अग्नये पुत्रवते पुरोडामष्टाकपालं निर्वपेदिन्द्राय पुत्रिणे पुरोडाशमेकाद-शकपालं प्रजाकामोऽग्निरेवास्मै प्रजां प्रजनयति वृद्धामिन्द्रः प्र यच्छति’ (सं. का. २ प्र. २ अ. ४) इति।
वृद्धां पुत्रपौत्रेणाभिवृद्धाम्।
तत्राऽऽग्नेयस्य पुरोनुवाक्यामाह — यस्त्वेति। जातवेदो योऽहं मर्त्यः सन्कीरिणा गुणकीर्तमशीलेन हृदा मनसा त्वाममर्त्यं मरणरहितं मन्यमान आह्वयामि, तादृशेष्वस्मासु पुत्रपौत्रदिरूपप्र-जाभिर्निष्पादितं यशः कीर्तिं निधेहि। हेऽग्ने त्वत्प्रसादादमृतत्वं देवत्वमश्यां प्राप्नुयाम्।
अथ याज्यामाह — यस्मै त्वमिति। शोभनं कर्म करोतीति सुकृत्। जातं जगद्वेत्तीति जातवेदाः। हे जातवेदोऽग्ने त्वं सुकृते यस्मै यजमानाय स्योनं सुखकरमुत्कृष्टं स्थानं कृणवः करोषि स यजमानो रयिं धनं स्वस्ति नशते सम्यक्प्राप्नोति। कीदृशं धनम् अश्वैः पुत्रैः शूरभटैर्गोभिश्च संयुतम्।
ऐन्द्रस्य पुरोनुवाक्यामाह — त्वे सु पुत्रेति। त्वे त्वयि। शवसो बलस्य। स्ववृत्रन्सुष्ठु वर्तन्ते। कामा भोगाः काम्यन्ते याभिः स्तुतिभिस्ताः कामकातयः। इन्द्रस्यातिप्रबलत्वाच्छवसः पुत्रेत्युपचर्यते। हे शवसः पुत्रेन्द्रास्मदीयस्तुतयस्त्वयि सुष्ठु वर्तन्ते, काचिदपि स्तुतिस्त्वां नातिरिच्यते। सर्वस्य स्तुतुवाक्यस्य त्वयि विद्यमानत्वात्।
अथ याज्यामाह — उक्थ इति। उक्थउक्थे सोमयागवर्तिनि तत्तच्छस्रे स सोम इन्द्रं ममाद हर्षयामास। नीयत आहूयत इन्द्रोऽत्रेति नीथो यागप्रदेशः। समानदक्षा-स्तुल्येषु यजमानेषु कुशलाः सुतासः पुत्रस्थानीया यजमानाः पितृस्थानीयं मघवानं नीथेनीथे तत्तद्यागप्रदेशेऽवसे रक्षार्थं हवन्त आह्वयन्ति। यदीं सबाधो यस्मादीदृश आहूतो मघवा विरोधिष्वसुरेषु बाधकारी तस्मादाह्वयन्ते। पुत्राः पितरं न पितरमिव। यथा बाला अन्यैस्ताडयमाना रक्षार्थं पितरमाह्व-यन्ति तद्वत्।
इष्टयन्तरं विधत्ते — ‘अग्नये रसवतेऽजक्षीरे चरुं निर्वपेद्यः कामयेत रसवन्त्स्यामित्यग्निमेव रसवन्त स्वेन भागधेयेनोप धावति स एवैन रसवन्तं करोति भवत्यजक्षीरे भवत्याग्नेयी वा एषा यदजा साक्षादेव रसमव रुन्धे’ (सं. का. २ प्र. २ अ. ४) इति।
रसवान्क्षीरदध्यादिरसोपेतः। अजाया अग्निवत्प्रजापतिमुखादुत्पन्नत्वादाग्ने-यत्वम्। साक्षादव्यवधानेन शीघ्रमित्यर्थः।
तत्र पुरोनुवाक्यामाह — अग्ने रसेनेति। हे जातवेदोऽग्ने रसनास्मान्योजय। तेजसा विशेषेण प्रकाशसे। कीदृशस्त्वम्। यागदेशे रक्षसां हन्ता। शरीरेऽमीवस्याऽऽन्तररोगस्य चातनो विनाशकः। याज्या लिखिता। उरु हि राजा वरुणश्चकारेत्यस्मिन्ननुवाके व्याख्यातो मन्त्रः।
इष्ट्यन्तरं विधत्ते — “अग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेत वसुमान्त्स्यामित्य-ग्निमेव वसुमन्त स्वेन भागधेयेनोप धावति स एवैनं वसुमन्तं करोति वसुमानेव भवति” (सं. का. २ प्र. २ अ. ४) इति।
तत्र पुरोनुवाक्याह — वसुरिति। हेऽग्ने हिकं यस्मात्कारणात्त्वं वसुर्लोकानां वासि(सयि)ता धन पतिः प्रजायुक्त(तिस्तेजोधन)श्चासि तस्माद्वयमपि तवानुग्रहबुद्धाववस्थिता भवेम।
याज्यामाह — त्वामग्न इति। हे राजन्दीप्तिमन्नग्नेऽध्वरेषु यज्ञेषु त्वामभिप्रमन्दे सर्वतः प्रकर्षेण तोषयामि। कीदृशं त्वाम्। वसूनां वसुपतिं धनानां मध्ये यानि श्रेष्ठानि धनानि तेषामधिपतिमित्यर्थः। वाजयन्तोऽन्नमिच्छन्तो वयं त्वात्प्रसादेन वाजमन्नं जयेम। विरोधिनां मनुष्याणां पृत्सुतीः सेनाः अभिष्यामाभिभवितुं शक्ता भवेम।
इष्ट्यन्तरं विधत्ते — ‘अग्नये वाजसृते पुरोडाशमष्टाकपालं निर्वपेत्संग्रामे संयत्ते वाजं वा एष सिसीर्षति यः संग्रामं जिगीषत्यग्निः खलु वै देवानां वाजसृदग्निमेव वाजसृत स्वेन भागधेयेनोप धावति धावति वाज हन्ति वृत्रं जयति त संग्राममथो अग्निरिव न प्रतिधृषे भवति’ (सं. का. २ प्र. २ अ. ४) इति।
वाजमन्नं सरति प्राप्नोतीति वाजसृत्। लोके युद्धं जेतुमिच्छुर्जयादूर्ध्वं वैरिसंबद्धमन्नं कृत्स्नं प्राप्तुमिच्छति। अतो वाजसृदिति विशेषणं युक्तम्। वाजं धावति प्राप्नोति तदर्थं वृत्रं हन्ति युद्धं च जयति। किंचाग्निरिवायमन्येन प्रतिधृषे तिरस्कर्तुं शक्तो न भवति।
त्वामग्न इति। हेऽग्ने त्वां विप्रा यजमाना अभिवृद्धिं प्रापयन्ति। कीदृशं त्वाम्। वाजसातममतिशयेनान्नप्रदं सुष्टुतं स्तोत्रैर्हि सुष्ठु स्तुतम्। स तादृशस्त्वं नोऽस्माकं सुष्ठु सामर्थ्यं रास्व देहि।
याज्यामाह — अयं नो इति। अयमग्निरस्माकं वरिवः परिचारकं भृत्यवर्गं संपादयतु। मृधो वैरिणो विदारयन्नोऽस्माकं पुरतो गच्छतु। जर्हृषाणः प्रहरञ्शत्रूञ्जयतु। वाजसातावन्नदाननिमित्तं परकीयमन्नं जयतु।
इष्ट्यन्तरं विधत्ते — “अग्नयेऽग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुर्निर्दिष्टभागो वा एतयोरन्योऽनिर्दिष्टभागोऽन्यस्तौ संभवन्तौ यजमानमभि संभवतः स ईश्वर आर्तिमार्तोर्यदग्नेऽग्निवते निर्वपति भागधेयेनैवैनौ शमयति नाऽऽर्तिमार्च्छति यजमानः” (सं. का. २ प्र. २ अ. ४) इति।
गार्हपत्यादाहवनीयेऽग्निं प्रक्षिप्य तत्राग्निहोत्रं हूयते। तथा सति यस्य यज-मानस्य संबन्धिनः पुरुषा विस्मृत्योद्धृत आहवनीयाग्नौ पुनरन्यमग्निमुद्धरेयुः स यजमानोऽग्नियुक्तायाग्नये निर्वपेत्। तत्र विशष्यरूपोऽग्निर्निर्दिष्टभागो विशेषण-रूपस्त्वनिर्दिष्टभागस्तावुभौ परस्परं संसृज्यमानौ यजमानं भक्षयितुमभिलक्ष्य संभवतः। ततः स यजमान अर्तिमार्तोरीश्वरो विनाशं प्राप्तुं संप्रभवति। तावग्नी अनयेष्ट्या शाम्यतः।
तत्र पुरोनुवाक्यामाह — अग्निनेति। पश्चात्प्रक्षिप्तेनाग्निना पूर्वस्थितोऽग्निः सम्यग्दीप्यते। सोऽग्निर्वि-शेषणैः कविरित्यादिभिर्विशिष्टः।
याज्यामाह — त्व ह्यग्न इति। हे पूर्वस्थिताग्ने पश्चात्प्रक्षिप्तेनाग्निना त्वं समिध्यसे। तादृशस्त्वं ब्राह्मणजात्यभिमानी सन्मार्गवतीं प्रियश्च। इतरोऽपि तादृश एव।
इष्ट्यन्तरं विधत्ते — ‘अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेत्’ (सं. का. २ प्र. २ अ. ४) इति।
यस्य यजमानस्याग्निहोत्रार्थमुद्धृतोऽग्निर्होमात्पूर्वमेवोपशाम्यति स एतामिष्टिं निर्वपेत्।
अत्र शास्रान्तरानुसारिणां मतं पूर्वपक्षत्वेनोपन्यस्यति — ‘अपर आदीप्यानूद्धृत्य इत्याहुः’ (सं. का. २ प्र. २ अ. ४) इति।
अपरोऽग्निर्गार्हपत्ये प्रदीप्य पूर्वोद्धरणमनु पुनरुद्धरणीय इति तन्मतम्।
तदिदं दूषयति — ‘तत्तथा न कार्यं यद्भागधेयमभि पूर्व उद्ध्रियते किमपरोऽभ्युद्ध्रियेतेति’ (सं. का. २ प्र. २ अ. ४) इति।
अग्निहोत्रहविर्लक्षणो(णं) यद्भागधेयमभिलक्ष्य पूर्वो वह्निरुद्धृतस्तमेव भागमभिलक्ष्यापरो वह्निः किमुद्ध्रियेत तदनुचितम्। इतिशब्दो हेतौ। तस्मान्नकार्यम्।
सिद्धान्तं विधत्ते — ‘तान्येवावक्षाणानि संनिधाय मन्थेत्’ (सं. का. २ प्र. २ अ. ४) इति।
यान्युल्मुकानि शान्तानि तान्येवाधस्तादवस्थाप्यारणीभ्यामग्निमन्थनं कुर्यात्।
मन्थने मन्त्रमुत्पादयति — ‘इतः प्रथमं जज्ञे अग्निः स्वाद्योनेरधि जातवेदाः। स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्निति’ (सं. का. २ प्र. २ अ. ४) इति।
अग्निः पूर्वमितो दग्धकाष्ठादुत्पन्न इदानीमपि स जातवेदा गायत्र्यादि-भिश्छन्दोभिरनुगृहीतः स्वाद्योनेर्दग्धकाष्ठादधिजायताम्। जातश्च तं तं देवं प्रजानन्देवेभ्यो हव्यं वहतु।
मन्त्रस्य तात्पर्यं व्याचष्टे — ‘छन्दोभिरेवैन स्वाद्योनेः प्र जनयति’ (सं. का. २ प्र. २ अ. ४) इति।
नन्वस्मिन्सिद्धन्तेऽपि पूर्वपक्षादपरोऽग्निः प्रसज्येतेत्याशङ्कयाऽऽह — ‘एष वाव सोऽग्निरित्याहुः’ (सं. का. २ प्र. २ अ. ४) इति।
स्वकारणादुत्पन्नत्वादेष एव पूर्वोऽग्निर्न तु भेदोऽस्तीति सिद्धान्तित आहुः।
किमर्था तर्हीयमिष्टिरित्याशङ्कयाऽऽह — ‘ज्योतिस्त्वा अस्य परापतितमिति यदग्नये ज्योतिष्मते निर्वपति यदेवास्य ज्योतिः परापतितं तदेवाव रुन्धे’ (सं. का. २ प्र. २ अ. ४) इति।
अस्य पूर्वाग्नेर्ज्योतिरेव विनष्टं न त्वग्निर्विनष्टः। तच्च ज्वालारूपं ज्योतिरिष्ट्या संपाद्यते।
तत्र याज्यापुरोनुवाक्ययोचोः प्रतीकं(के) दर्शयति — उदग्न इति। उदग्ने शुचयस्तव शुक्रा भ्राजन्त इत्ययं मन्त्रस्त्वमग्ने रुद्र इत्यस्मिन्ननुवाके व्याख्यातः। वि ज्योतिषा बृहतेत्ययं मन्त्रं कृणुष्व पाज इत्यस्मिन्ननुवाके व्याख्यातः।
अत्र विनियोगसंग्रहः -
“यस्त्वा याज्या पुत्रवत्यामिष्टौ त्वे पुत्रयागके।
अग्ने रसवद्यागे तु वसुर्वसुमतीष्यते॥१॥
त्वामग्ने वाजसृद्यागे ह्यग्निनाऽग्निवतीष्यते।
उदविज्योतिषे ज्योतिष्मत्ये तत्र चतुर्दश॥२॥ इति।
नवमाध्यायस्यचतुर्थपादे चिन्तितम् — “ज्योतिष्मती भवेन्नो वा दर्शाद्युद्धृतलोपने।
निमित्तसत्त्वात्स्यान्नाग्निहोत्रार्थोद्धृतिवर्जनात्” इति॥
अग्निहोत्रप्रक्रियायामिदमाम्नायते - “अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निरुद्धृतोऽग्निहोत्र उद्वायेत्” इति। प्रतिदिनमग्निहोत्रं होतुं गार्हपत्यादुद्धृत्याऽऽहवनीयेऽग्निः प्रक्षिप्यते। सोऽयमुद्धृतोऽग्निः कदाचिद-हुतेऽग्निहोत्रे यदि शाम्येत्तदानीमियमिष्टिः प्रायश्चित्तमित्यर्थः। तत्र दर्शपूर्ण-मासार्थमुद्धृतस्याप्यग्नेः शान्तौ सेयं ज्योतिष्मतीष्टिर्भवेत्। कुतः। अग्न्युद्वानस्य निमित्तस्य सद्भावादिति चेन्मैवम्। अग्निहोत्रर्थोद्धृतस्यैवाग्नेरुद्वानं निमित्तमिति प्रकरणादवगम्यते। अनया चेष्टयाऽग्निहोत्रयैवाग्निः पुनरुत्पाद्यते। तथा सत्यग्निहोत्रस्येयमिष्टिः सामवायिकमङ्गं भवति। अतोऽग्नित्रार्थोद्धृतोद्वानस्य निमित्तस्याभावान्नैमित्तिकीष्टिर्न प्रवर्तते।
तत्रैवान्यच्चिन्तितम् —
“धार्योद्वाने साऽस्ति नो वा सर्वार्थत्वेन विद्यते।
गतश्रीत्वनिमित्तं तत्सर्वार्थत्वं न विद्यते” इति॥
इदमाम्नायते — “धार्यो गतश्रिय आहवनीयः” इति। गतश्रीशब्दार्थस्त्वेवं श्रूयते — “त्रयो वै गतश्रियः शुश्रुवान्ग्रामणी राजन्यः” इति। और्वो गौतमो भारद्वाज इति कल्पसूत्रकारः। गतश्रीभिर्धार्यमाणस्यऽऽहवनीयस्य सर्वकर्मार्थत्वे सत्यग्निहोत्रार्थत्वमप्यस्तीति तदुद्वाने सा ज्योतिष्मतीष्टिर्विद्यत इति चेन्मैवम्। न ह्यस्य धारणेऽग्निहोत्रं निमित्तं किंतु गतश्रीत्वम्। सर्वकर्मसमुदायस्य चोदनया कदाचिदप्यचोदितत्वात्सर्वार्थत्वं शङ्कितुमप्यशक्यम्। गतश्रीत्वं निमित्तीकृत्य धृतोऽग्निः प्रसङ्गात्सर्वकर्मसूप-कुर्वन्नग्निहोत्रेऽप्युपकरोतीति चेत्। उपकरोतु नाम, नैतावता प्रायश्चित्तस्य निमित्तत्वं लभ्यते। अग्निहोत्रार्थमुद्धृतस्योद्वानं तन्निमित्तं, न चात्र तदस्ति। किंत्वन्यस्य यस्य कस्यचित्कर्मणोऽर्थे समुद्धृतस्य गतश्रीत्वनिमित्तं धारणं क्रियते। तस्मान्निमित्ताभावान्नास्ति सेष्टिः॥
—--------------------------------------------------------
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
एवमाध्वरिका मन्त्रा अवभृथान्तास्समाप्ताः । अतः परमन्त्योनुवाको याज्या, वैश्वदेवं काण्डम् ॥
समाप्तः प्रपाठकः ॥
—----------------------------------