पञ्चशत् 1 #
म॒रुत्वाꣳ॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य । आ सि॑ञ्चस्व ज॒ठरे॒ मद्ध्व॑ ऊ॒र्मिं त्वꣳ राजा॑ऽसि प्र॒दिवः॑ सु॒तानां᳚ ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥
पदपाठः (Word-by-word)
म॒रुत्वान्॑ । इ॒न्द्र॒ । वृ॒ष॒भः । रणा॑य । पिब॑ । सोम᳚म् । अ॒नु॒ष्व॒धमित्य॑नु - स्व॒धम् । मदा॑य ॥ एति॑ । सि॒ञ्च॒स्व॒ । ज॒ठरे᳚ । मद्ध्वः॑ । ऊ॒र्मिम् । त्वम् । राजा᳚ । अ॒सि॒ । प्र॒दिव॒ इति॑ प्र - दिवः॑ । सु॒ताना᳚म् ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । इन्द्रा॑य । त्वा॒ । म॒रुत्व॑ते । ए॒षः । ते॒ । योनिः॑ । इन्द्रा॑य । त्वा॒ । म॒रुत्व॑ते ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 तृतीयं मरुत्वतीयं गृह्णाति - मरुत्वानिन्द्रेति चतुष्पदया त्रिष्टुभा ॥ हे इन्द्र यस्त्वं मरुत्वान् वृषभश्च स त्वं रणाय सङ्ग्रामाय पिब सोमम् । 'द्व्यचोतस्तिङः ' इति दीर्घः । अनुष्वधं स्वधामन्नं अनुस्वदनीयं पुरोडाशात्मकमन्नं सोमम् । सुषामादित्वात् षत्वम्, 'अनोरप्रधानकनीयसी' इत्युत्तरपदान्तोदात्तत्वम् । मदाय, माद्यत्यनेनेति मदः । 'मदोऽनुपसर्गे' इत्यप् । ईदृशाय रणाय जयकरायेत्यर्थः । 'वार्त्रघ्ना एव ते यजमानस्य गृह्यन्ते' 'यन्मरुत्वतीयाः' 'आयुधं एतद्यजमानस्संस्कुरुते यन्मरुत्वतीयाः' इत्यादि च ब्राह्मणम् । कि बिन्दुमात्रमपि पीतं मदाय भवतीत्याशङ्क्य नेति प्रतिपाद्यते - आसिञ्चस्व आभिमुख्येन क्षारय जठरे उदरे यथा ते मदो भवति तथा प्रभूतं पिबेत्यर्थः । मध्वः मधुसदृशस्यास्य सोमस्य ऊर्मिं सङ्घातम् । 'जसादिषु वा वचनं छन्दसि' इति गुणाभावः । राजा विशेष्यते - प्रदिवः पुराणः नेदानीमेव । मदस्योत्पाद्यत्वे हेतुमाह - त्वं राजा सुतानां सोमार्नां, तव मदाय सोमा अभिषूयन्त इति भावः, अतिक्रान्तेष्वप्यहस्सु त्वमेव सोमानां राजेति । यद्वा - त्वमेव ह्यतिक्रान्तेष्वहस्सु सुतानां राजाऽभूः, तस्मादिदानीमपि पिबेति प्रार्थ्यसे । प्रगता दिवसा अस्येति प्रदिवः । छान्दसोकारस्समासान्तः, 'परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । मरुत्वानित्यत्र पूर्ववत्सांहितायां रुत्वादि ॥ पूर्ववदेव ग्रहण2सादने ॥
इति चतुर्थे एकोनविंशोनुवाकः ॥