पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमाकाण्डे चतुर्थप्रपाठके सप्तदशाष्टादशैकोनविंशैकविंशानुवाकाः)।
कल्पः – “मरुत्वन्तमिति स्वेर्तुपात्रेणाध्वर्युः पूर्वं मरुत्वतीयं गृह्णातीन्द्र मरुत्व इति स्वेन प्रतिप्रस्थातोत्तरम्” इति।
पाठस्तु — मरुत्वन्तमिति। इहास्मिन्कर्मणि तमिन्द्रमाह्वयाम। कीदृशम्। मरुद्गणैरुपेतं जलस्य वर्षितारं कामानां वर्धयितारमकुत्सितारिं वृत्रादीनां शत्रूणामतिप्रबलत्वात्, दिवि भवं दुष्टानां शासितारं विश्वं पालयितुं सहिष्णुमनलसमित्यर्थः। अवसे रक्षणाय। नूतनायोग्रम्, इदानींतनेभ्यो वैरिभ्यो यजमानं रक्षितुं तद्वैरिषूग्रमित्यर्थः। सहोदां बलपदम्। हे मरुद्गणयुक्तेन्द्र त्वमिहास्मिन्कर्मणि सोमं पाहि पिब। यथा शा(श)र्यातिनामकस्य यजमानस्य संबन्धिनि कर्मण्यभिषुतस्य सोमस्यांशमपिबस्तद्वच्छूर तव प्रणीती प्रणयनेनानुज्ञया सुयज्ञाः पूर्वे कवयस्तव शर्मणि सुखे निमित्तभूते सत्याभिमुख्येन विवासन्ति परिचय(र)न्ति तद्वदयमपि यजमान इत्यर्थः। स्पष्टमन्यत्।
कल्पः – “अभक्षितेन पात्रेणाध्वर्युस्तृतीयं मरुत्वतीयं गृह्णाति मरुत्वा इन्द्रेति ग्रहणसादनौ” इति।
पाठस्तु — मरुत्वा इन्द्रेति। हे इन्द्र मरुद्भिर्युक्तो वर्षिता च त्वं रणाय क्रीडार्थं सोमं पिब। कीदृशम्। अनुष्वधम्। स्वधाशब्दोऽन्नवाची सवनीयपुरोडाशानाचष्टे। तामनुसृत्य वर्तमानम्। किंच मदाय हर्षाय मध्वो मधुरस्य पीतस्य सोमस्योर्मिं सारं त्वदीये जठर आसिञ्चस्व स्थापय। त्वं प्रदिवः प्राप्यस्य स्वर्गस्य सुतानां सोमानां च राजाऽसि। अत एव प्रार्थ्यसे। स्पष्टमन्यत्।
कल्पः – “माहेन्द्रं शुक्रपात्रेण गृह्णाति महा इन्द्रो य ओजसेति ग्रहणसादनौ” इति।
पाठस्तु — महा इन्द्र इति। वृष्टिमान्पर्जन्य एव य इन्द्र ओजसा बलेन महान्स इन्द्रो वत्सस्थानीयस्य यजमानस्य स्तोमैः स्तोत्रैर्वावृधे वर्धताम्। स्पष्टमन्यत्। अस्मिन्नेव माहेन्द्रग्रहे विकल्पितं मन्त्रान्तरमेवमाम्नायते — महा इन्द्र इति। अयं महानिन्द्रो नृवन्मनुष्यवदाचर्षणिप्राश्चर्षणीन्मनु-ष्यान्प्रति अभीष्टभोगैः पूरयतीति चर्षणीप्राः यथा राजामात्यादिर्मनुष्यः सेवकानभीष्टभोगैरापूरयति तद्वत्। अपि चायं द्वयोः प्रकृतिविकृतिरूपयोः सोमयागयोर्बर्हो वृद्धिर्यस्येति द्विबर्हाः। सहोभिर्बलैरमिनोऽमित उपमानरहितः। अस्मद्रियगस्मत्सदृशो ववृधे वृद्धिं प्राप्तः। यथा वयमस्यानुग्रहाद्वृद्धिं प्राप्तास्तथैवायमप्यस्मदीयैर्हविर्भिर्विवृद्धः। एतदेव प्रपञ्च्यते – वीर्याय सामर्थ्यसिद्धये कर्तृभिर्यजमानैरयं सुकृतो भूत्सुष्ठु वर्धितोऽभूत्। कीदृशी तस्य वृद्धिः उरुर्यशसा विपुलः पृथुर्बलेन विस्तृतः। स्पष्टमन्यत्। मन्त्रा उपेक्षिताः।
त्रीन्मरुत्वतीयग्रहान्विधत्ते — “इन्द्रो मरुद्भिः सांविद्येन माध्यंदिने सवने वृत्रमहन्यन्माध्यंदिने सवने मरुत्वतीया गृह्यन्ते वार्त्रघ्ना एव ते यजमानस्य गृह्यन्ते” (सं. का. ६ प्र. ५ अ. ५) इति। सांविद्यं संप्रतिपत्तिरैकमत्यम्।
तेषां ग्रहाणां पात्रं विधत्ते — “तस्य वृत्रं जघ्नुष ऋतवोऽमुह्यन्त्स ऋतुपात्रेण मरुत्वतीयानगृह्णात्ततो वै स ऋतून्प्राजानाद्यदृतुपात्रेण मरुत्वतीया गृह्यन्त ऋतूनां प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ५) इति।
ग्रहत्रयं वज्ररूपेण प्रशंसति — “वज्रं वा एतं यजमानो भ्रातृव्याय प्र हरति यन्मरुत्वतीया उदेव प्रथमेन गच्छति प्र हरति द्वितीयेन स्तृणुते तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति। स्तृणुते हिनस्ति।
धनुःसंपादनरूपेण पुनः प्रशंसति — “आयुधं वा एतद्यजमानः स स्कुरुते यन्मरुत्वतीया धनुरेव प्रथमो ज्या द्वितीय इषुस्तृतीयः” (सं. का. ६ प्र. ५ अ. ५) इति।
संपादितस्य धनुषः प्रयोगरूपेण पुनः प्रशंसति — “प्रत्येव प्रथमेन धत्ते वि सृजति द्वितीयेन विध्यति तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति।
प्रतिधत्त एव बाणं संदधात्येव।
प्राणादिप्रीणयितृत्वरूपेश पुनः प्रशंसां कर्तुमाख्यायिकामाह — “इन्द्रो वृत्र हत्वा परां परावतमगच्छदपाराधमिति मन्यमानः स हरितोऽभवत्स एतान्मरुत्वतीयानात्मस्परणानपश्यत्तानगृह्णीत प्राणनेव प्रथमेनास्पृणुतापानं द्वितीयेनाऽऽत्मानं तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति।
प्रबलेनारिकुलेन सह विरोधरूपमपराधं कृतवानस्मीति भीत्या परां परावतमत्यन्तदूरं पलाय्य स हरितो विवर्णोऽभवत्। आत्मस्परणान्स्वस्य भीतिनिवारणेन प्रीणयितॄन्प्रतिजग्राह प्राणापानक्षेत्रज्ञानां प्रीतिरभूत्।
इदानीं प्रशंसति — “आत्मस्परणा वा एते यजमानस्य गृह्यन्ते यन्मरुत्वतीयाः प्राणमेव प्रथमेन स्पृणुतेऽपानं द्वितीयेनाऽऽत्मानं तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति।
अथ माहेन्द्रग्रहं विधत्ते — “इन्द्रो वृत्रमहन्तं देवा अब्रुवन्महान्वा अयमभूद्यो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्व स एतं माहेन्द्रमुद्धारमुदहरत वृत्र हत्वाऽन्यासु देवतास्वधि यन्माहेन्द्रो गृह्यत उद्धारमेव तं यजमान उद्धरतेऽन्यासु प्रजास्वधि” (सं. का. ६ प्र. ५ अ. ५) इति।
उद्ध्रियते गृह्यत इत्युद्धारो ग्रहस्तमुदहरतागृह्णात्। वृत्रहननेनोद्धारेणैवाय-मन्यासु देवतासु मध्येऽध्यधिकोऽभवत्।
माहेन्द्रस्य पात्रं विधत्ते — “शुक्रपात्रेण गृह्णाति यजमानदेवत्यो वै माहेन्द्रस्तेजः शुक्रो यन्माहेन्द्र शुक्रपात्रेण गृह्णाति यजमान एव तेजो दधाति” (सं. का. ६ प्र. ५ अ. ५) इति।
मरुत्वन्तमिन्द्र मरुत्वो मरुत्वान्महा इन्द्रो नृवदित्येतास्रिष्टुभः। महा इन्द्रो य ओजसेति गायत्री॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
इमामनुद्रुत्य उपयामगृहीतोसीन्द्राय त्वा मरुत्वत इति गृह्णाति ॥