अनुवाकः 17 TS 1.4.17

(A17)

(म॒रुत्व॑न्तꣳ॒॒-षट्विꣳ॑शतिः)

अनुवाकः 17 - Complete Audio

TS 1.4.17 - स्वरानुगामी

0:00 0:00
PS1.1 म॒रुत्व॑न्तं ॅवृष॒भं ॅवा॑वृधा॒नमक॑वारिं दि॒व्यꣳ शा॒समिन्द्रं᳚
PS1.2 वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रꣳ स॑हो॒दामि॒ह तꣳ हु॑वेम
PS1.3 उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष
PS1.4 ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.17.1 TS 1.4.17.1
म॒रुत्व॑न्तं ॅवृष॒भं ॅवा॑वृधा॒नमक॑वारिं दि॒व्यꣳ शा॒समिन्द्रं᳚ । वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रꣳ स॑हो॒दामि॒ह तꣳ हु॑वेम ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥
पदपाठः (Word-by-word)
म॒रुत्व॑न्तम् । वृ॒ष॒भम् । वा॒वृ॒धा॒नम् । अक॑वारि॒मित्यक॑वा - अ॒रि॒म् । दि॒व्यम् । शा॒सम् । इन्द्र᳚म् ॥ वि॒श्वा॒साह॒मिति॑ विश्व-साह᳚म् । अव॑से । नूत॑नाय । उ॒ग्रम् । स॒हो॒दामिति॑ सहः - दाम् । इ॒ह । तम् । हु॒वे॒म॒ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । इन्द्रा॑य । त्वा॒ । म॒रुत्व॑ते । ए॒षः । ते॒ । योनिः॑ । इन्द्रा॑य । त्वा॒ । म॒रुत्व॑ते ॥
पदसंख्या: 26
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमाकाण्डे चतुर्थप्रपाठके सप्तदशाष्टादशैकोनविंशैकविंशानुवाकाः)।

कल्पः – “मरुत्वन्तमिति स्वेर्तुपात्रेणाध्वर्युः पूर्वं मरुत्वतीयं गृह्णातीन्द्र मरुत्व इति स्वेन प्रतिप्रस्थातोत्तरम्” इति।

पाठस्तु — मरुत्वन्तमिति। इहास्मिन्कर्मणि तमिन्द्रमाह्वयाम। कीदृशम्। मरुद्गणैरुपेतं जलस्य वर्षितारं कामानां वर्धयितारमकुत्सितारिं वृत्रादीनां शत्रूणामतिप्रबलत्वात्, दिवि भवं दुष्टानां शासितारं विश्वं पालयितुं सहिष्णुमनलसमित्यर्थः। अवसे रक्षणाय। नूतनायोग्रम्, इदानींतनेभ्यो वैरिभ्यो यजमानं रक्षितुं तद्वैरिषूग्रमित्यर्थः। सहोदां बलपदम्। हे मरुद्गणयुक्तेन्द्र त्वमिहास्मिन्कर्मणि सोमं पाहि पिब। यथा शा(श)र्यातिनामकस्य यजमानस्य संबन्धिनि कर्मण्यभिषुतस्य सोमस्यांशमपिबस्तद्वच्छूर तव प्रणीती प्रणयनेनानुज्ञया सुयज्ञाः पूर्वे कवयस्तव शर्मणि सुखे निमित्तभूते सत्याभिमुख्येन विवासन्ति परिचय(र)न्ति तद्वदयमपि यजमान इत्यर्थः। स्पष्टमन्यत्।

कल्पः – “अभक्षितेन पात्रेणाध्वर्युस्तृतीयं मरुत्वतीयं गृह्णाति मरुत्वा इन्द्रेति ग्रहणसादनौ” इति।

पाठस्तु — मरुत्वा इन्द्रेति। हे इन्द्र मरुद्भिर्युक्तो वर्षिता च त्वं रणाय क्रीडार्थं सोमं पिब। कीदृशम्। अनुष्वधम्। स्वधाशब्दोऽन्नवाची सवनीयपुरोडाशानाचष्टे। तामनुसृत्य वर्तमानम्। किंच मदाय हर्षाय मध्वो मधुरस्य पीतस्य सोमस्योर्मिं सारं त्वदीये जठर आसिञ्चस्व स्थापय। त्वं प्रदिवः प्राप्यस्य स्वर्गस्य सुतानां सोमानां च राजाऽसि। अत एव प्रार्थ्यसे। स्पष्टमन्यत्।

कल्पः – “माहेन्द्रं शुक्रपात्रेण गृह्णाति महा इन्द्रो य ओजसेति ग्रहणसादनौ” इति।

पाठस्तु — महा इन्द्र इति। वृष्टिमान्पर्जन्य एव य इन्द्र ओजसा बलेन महान्स इन्द्रो वत्सस्थानीयस्य यजमानस्य स्तोमैः स्तोत्रैर्वावृधे वर्धताम्। स्पष्टमन्यत्। अस्मिन्नेव माहेन्द्रग्रहे विकल्पितं मन्त्रान्तरमेवमाम्नायते — महा इन्द्र इति। अयं महानिन्द्रो नृवन्मनुष्यवदाचर्षणिप्राश्चर्षणीन्मनु-ष्यान्प्रति अभीष्टभोगैः पूरयतीति चर्षणीप्राः यथा राजामात्यादिर्मनुष्यः सेवकानभीष्टभोगैरापूरयति तद्वत्। अपि चायं द्वयोः प्रकृतिविकृतिरूपयोः सोमयागयोर्बर्हो वृद्धिर्यस्येति द्विबर्हाः। सहोभिर्बलैरमिनोऽमित उपमानरहितः। अस्मद्रियगस्मत्सदृशो ववृधे वृद्धिं प्राप्तः। यथा वयमस्यानुग्रहाद्वृद्धिं प्राप्तास्तथैवायमप्यस्मदीयैर्हविर्भिर्विवृद्धः। एतदेव प्रपञ्च्यते – वीर्याय सामर्थ्यसिद्धये कर्तृभिर्यजमानैरयं सुकृतो भूत्सुष्ठु वर्धितोऽभूत्। कीदृशी तस्य वृद्धिः उरुर्यशसा विपुलः पृथुर्बलेन विस्तृतः। स्पष्टमन्यत्। मन्त्रा उपेक्षिताः।

त्रीन्मरुत्वतीयग्रहान्विधत्ते — “इन्द्रो मरुद्भिः सांविद्येन माध्यंदिने सवने वृत्रमहन्यन्माध्यंदिने सवने मरुत्वतीया गृह्यन्ते वार्त्रघ्ना एव ते यजमानस्य गृह्यन्ते” (सं. का. ६ प्र. ५ अ. ५) इति। सांविद्यं संप्रतिपत्तिरैकमत्यम्।

तेषां ग्रहाणां पात्रं विधत्ते — “तस्य वृत्रं जघ्नुष ऋतवोऽमुह्यन्त्स ऋतुपात्रेण मरुत्वतीयानगृह्णात्ततो वै स ऋतून्प्राजानाद्यदृतुपात्रेण मरुत्वतीया गृह्यन्त ऋतूनां प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ५) इति।

ग्रहत्रयं वज्ररूपेण प्रशंसति — “वज्रं वा एतं यजमानो भ्रातृव्याय प्र हरति यन्मरुत्वतीया उदेव प्रथमेन गच्छति प्र हरति द्वितीयेन स्तृणुते तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति। स्तृणुते हिनस्ति।

धनुःसंपादनरूपेण पुनः प्रशंसति — “आयुधं वा एतद्यजमानः स स्कुरुते यन्मरुत्वतीया धनुरेव प्रथमो ज्या द्वितीय इषुस्तृतीयः” (सं. का. ६ प्र. ५ अ. ५) इति।

संपादितस्य धनुषः प्रयोगरूपेण पुनः प्रशंसति — “प्रत्येव प्रथमेन धत्ते वि सृजति द्वितीयेन विध्यति तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति।

प्रतिधत्त एव बाणं संदधात्येव।

प्राणादिप्रीणयितृत्वरूपेश पुनः प्रशंसां कर्तुमाख्यायिकामाह — “इन्द्रो वृत्र हत्वा परां परावतमगच्छदपाराधमिति मन्यमानः स हरितोऽभवत्स एतान्मरुत्वतीयानात्मस्परणानपश्यत्तानगृह्णीत प्राणनेव प्रथमेनास्पृणुतापानं द्वितीयेनाऽऽत्मानं तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति।

प्रबलेनारिकुलेन सह विरोधरूपमपराधं कृतवानस्मीति भीत्या परां परावतमत्यन्तदूरं पलाय्य स हरितो विवर्णोऽभवत्। आत्मस्परणान्स्वस्य भीतिनिवारणेन प्रीणयितॄन्प्रतिजग्राह प्राणापानक्षेत्रज्ञानां प्रीतिरभूत्।

इदानीं प्रशंसति — “आत्मस्परणा वा एते यजमानस्य गृह्यन्ते यन्मरुत्वतीयाः प्राणमेव प्रथमेन स्पृणुतेऽपानं द्वितीयेनाऽऽत्मानं तृतीयेन” (सं. का. ६ प्र. ५ अ. ५) इति।

अथ माहेन्द्रग्रहं विधत्ते — “इन्द्रो वृत्रमहन्तं देवा अब्रुवन्महान्वा अयमभूद्यो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्व स एतं माहेन्द्रमुद्धारमुदहरत वृत्र हत्वाऽन्यासु देवतास्वधि यन्माहेन्द्रो गृह्यत उद्धारमेव तं यजमान उद्धरतेऽन्यासु प्रजास्वधि” (सं. का. ६ प्र. ५ अ. ५) इति।

उद्ध्रियते गृह्यत इत्युद्धारो ग्रहस्तमुदहरतागृह्णात्। वृत्रहननेनोद्धारेणैवाय-मन्यासु देवतासु मध्येऽध्यधिकोऽभवत्।

माहेन्द्रस्य पात्रं विधत्ते — “शुक्रपात्रेण गृह्णाति यजमानदेवत्यो वै माहेन्द्रस्तेजः शुक्रो यन्माहेन्द्र शुक्रपात्रेण गृह्णाति यजमान एव तेजो दधाति” (सं. का. ६ प्र. ५ अ. ५) इति।

मरुत्वन्तमिन्द्र मरुत्वो मरुत्वान्महा इन्द्रो नृवदित्येतास्रिष्टुभः। महा इन्द्रो य ओजसेति गायत्री॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके सप्तदशाष्टादशैकोनविंश-विंशैतविंशानुवाकाः॥१७॥१८॥१९॥२०॥२१॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 त्रयो मरुत्वतीया माध्यंदिने सवने गृह्यन्ते ॥ 'इन्द्रो मरुद्भिस्सांविद्येन' इत्यादि ब्राह्मणम् । ते चर्तुपात्रेण गृह्यन्ते । 'तस्य वृत्रं जघ्नुष ऋतवोमुह्यन्' इत्यादि ब्राह्मणम् । 'वज्रं वा एतं यजमानो भ्रातृव्याय प्रहरति यन्मरुत्वतीयाः' इत्यादि च । तत्र प्रथमं गृह्णाति - मरुत्वन्तमिति त्रिष्टुभा चतुष्पदया ॥ मरुतो देवविशेषास्तैस्तद्वन्तम् । 'तसौ मत्वर्थे' इति भत्वम् । 'झयः' इति मतुपो वत्वम् । वृषभं वर्षितारं कामानां अपां वा । 'ऋषिवृषिभ्यां कित्' इति वृषेरभच्प्रत्ययः । वावृधानं ऐश्वर्येण । वृधेस्ताच्छीलिकश्चानश्, 'बहुलं छन्दसि' इति शपश्श्लुः, तुजादित्वाद्दीर्घः, लसार्वधातुकानुदात्तत्वाभावात् 'चितः' इत्यन्तोदात्तत्वम् । अकवारिं अकुत्सितारिम् । कुत्सिता अरयो यस्य स कवारिः । कुशब्दस्याकारोपसर्जनो गुणश्छान्दसः, ततो नञ्समासः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । योल्पान् शत्रुत्वेन विषयीकरोति सोकवारिः । यद्वा - कविः प्रज्ञातः अरिर्यस्य स कवारिः । कविशब्दस्यावङादेशश्छान्दसः । ततोन्योकवारिः अप्रज्ञात शत्रुरित्यर्थः । दिवमर्हतीति दिव्यः । 'छन्दसि च' इति यत्प्रत्ययः । शासं शासकं शत्रूणाम् । पचाद्यच् । विश्वासाहं विश्वेषां शत्रूणामभिभवितारम् । 'छन्दसि सहः' इति ण्विप्रत्ययः, 'अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घत्वम् । उग्रं उद्गूर्ण मायुधैः । सहोदां सहसो बलस्य दातारम् । 'आतो मनिन्क्वनिब्वनिपश्च' इति विच्प्रत्ययः । ईडृअशं मरुत्वन्तं इन्द्रं हुवेम आह्वयाम । इहास्मिन्कर्मणि । ह्वयतेराशिषि लिङ्, 'लिङ्याशिष्यङ्' यासुडादि, 'छन्दस्युभयथा' इति सार्वधातुकत्वात्सलोपः ॥ 'किदाशिषि' इति कित्त्वाद्वचिस्वप्यादिना संप्रसारणम् । किमर्थमाह्वयामः? अवसे रक्षणाय । अवतेरसुन् । नूतनायाभिनवाय अद्यप्रभृति विशिष्टं रक्षणं कर्तुम् । 'नवस्य नूआदेशः त्नप्तनप्खाश्च प्रत्ययाः' इति तनप्प्रत्ययः ॥

इमामनुद्रुत्य उपयामगृहीतोसीन्द्राय त्वा मरुत्वत इति गृह्णाति ॥

2 एष ते योनिरिन्द्राय त्वा मरुत्वत इति सादयति ॥
इति चतुर्थे सप्तदशोनुवाकः ॥