अनुवाकः 30 TS 1.4.30

(A30)

(उ॒त्तिष्ठ॒न्नेक॑विꣳशतिः)

अनुवाकः 30 - Complete Audio

TS 1.4.30 - स्वरानुगामी

0:00 0:00
PS1.1 उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वा शिप्रे॑ अवेपयः
PS1.2 सोम॑मिन्द्र च॒मू सु॒तं
PS1.3 उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य॒ त्वौज॑स्वत ए॒ष ते॒
PS1.4 योनि॒रिन्द्रा॑य॒ त्वौज॑स्वते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.30.1 TS 1.4.30.1
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वा शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तं ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य॒ त्वौज॑स्वत ए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वौज॑स्वते ॥
पदपाठः (Word-by-word)
उ॒त्तिष्ठ॒न्नित्यु॑त् - तिष्ठन्न्॑ । ओज॑सा । स॒ह । पी॒त्वा । शिप्रे॒ इति॑ । अ॒वे॒प॒यः॒ ॥ सोम᳚म् । इ॒न्द्र॒ । च॒मू इति॑ । सु॒तम् ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । इन्द्रा॑य । त्वा॒ । ओज॑स्वते । ए॒षः । ते॒ । योनिः॑ । इन्द्रा॑य । त्वा॒ । ओज॑स्वते ॥ 31(21)
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)

कल्पः -त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णात्याग्नेयमैन्द्रं सौर्यमित्यग्न आयूष्युत्ति-ष्ठंस्तरणिरिति ग्रहणसादनाः- इति।

प्रथममन्त्रपाठस्तु — अग्न इति। हेऽग्ने त्वं भक्तानामायूंषि पवसे शोधयसि वर्धयसीत्यर्थः। अस्माकमिषमन्नमूर्जं बलमासुव प्रयच्छ। दुच्छुनां वैरिसेनामारे दूरं यथा स्या-त्तथा बाधस्व। स्पष्टमन्यत्।

द्वितीयमन्त्रपाठस्तु — उत्तिष्ठन्निति। हे इन्द्र सुतं सोमं पीत्वौजसा बलेन सहोत्तिष्ठंश्चमू भक्षणक-रणभूते शिप्रे हनू अवेपयश्चालय। तच्चालनलिङ्गेन तुष्टमात्मानमस्माकं दर्शये-त्यर्थः। स्पष्टमन्यत्।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथैन्द्रं गृह्णाति - उत्तिष्ठन्निति गायत्र्या ॥ हे इन्द्र सुतमभिषुतं सोमं पीत्वा ओजसा बलेन महता सह उत्तिष्ठन् शिप्रे हनू । कीदृग्भूते? चमू अदनकरणभूते अवेपयः वेपय आचूषणिकान्तां तृप्तिं जनयन् हनुयुगळं चालय । चमु छमु अदने, औणादिक ऊप्रत्ययः ॥
2 -3ग्रहणसादने व्याख्याते ॥
इति चतुर्थे त्रिंशोनुवाकः ॥