पञ्चशत् 1 #
आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भि-रू॒तिभिः॑ । भवा॑ नः स॒प्रथ॑स्तमः ॥
पदपाठः (Word-by-word)
एति॑ । प्या॒य॒स्व॒ । म॒दि॒न्त॒म॒ । सोम॑ । विश्वा॑भिः । ऊ॒तिभि॒रित्यू॒ति - भिः॒ ॥ भव॑ । नः॒ । स॒प्रथ॑स्तम॒ इति॑ स॒प्रथः॑ - त॒मः॒ ॥
सायणभाष्यम् (Sayana Commentary)
प्रेतदाहस्थानसमीपेऽवटं खात्वा जलं प्रक्षिप्य तेन सेचनं संगाहनं तत्र विनियुक्तां सौमीमृचमाह -
हे मदिन्तमातिशयेन हर्षयुक्त सोम विश्वाभिरूतिभिः सर्वप्रकारैरस्मदीयरक्षणैराप्यायस्व सर्वतो वर्धस्व । नोऽस्मान्प्रति सप्रथस्तमोऽतिशयेन प्रथायुक्तो भव ॥