अनुवाकः 31 TS 1.4.31

(A31)

(त॒रणि॑र् विꣳश॒तिः)

अनुवाकः 31 - Complete Audio

TS 1.4.31 - स्वरानुगामी

0:00 0:00
PS1.1 त॒रणि॑र् वि॒श्वद॑र्.शतो ज्योति॒ष्कृद॑सि सूर्य
PS1.2 विश्व॒मा भा॑सि रोच॒नं
PS1.3 उ॒प॒या॒मगृ॑हीतो-ऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत
PS1.4 ए॒ष ते॒ योनिः॒ सूर्या॑य
PS1.5 त्वा॒ भ्राज॑स्वते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.31.1 TS 1.4.31.1
त॒रणि॑र् वि॒श्वद॑र्.शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नं ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा॒ भ्राज॑स्वते ॥
पदपाठः (Word-by-word)
त॒रणिः॑ । वि॒श्वद॑र्.शत॒ इति॑ वि॒श्व - द॒र्.॒श॒तः॒ । ज्यो॒ति॒ष्कृदिति॑ ज्योतिः - कृत् । अ॒सि॒ । सू॒र्य॒ ॥ विश्व᳚म् । एति॑ । भा॒सि॒ । रो॒च॒नम् ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । सूर्या॑य । त्वा॒ । भ्राज॑स्वते । ए॒षः । ते॒ । योनिः॑ । सूर्या॑य । त्वा॒ । भ्राज॑स्वते ॥
पदसंख्या: 20
सायणभाष्यम् (Sayana Commentary)
अथ सूर्योपस्थाने विनियुक्तं मन्त्रमाह -

हे सूर्य त्वं तरणिरन्धकारोत्तरणहेतुः, विश्वदर्शतो विश्वैः सर्वैः प्राणिभिर्दर्शनीयः ज्योतिष्कृत्सर्वस्मिँल्लोके प्रकाशकृच्चासि । विश्वं सर्वं जगद्रोचनं दीप्यमानं यथा भवति तथाऽऽभासि सर्वतः प्रकाशयसि । अग्निष्टोमे योऽयमतिग्राह्यरूपो ग्रहोऽस्ति तादृश हे ग्रह भ्राजस्वते दीप्तियुक्ताय यथोक्तमहिमोपेताय सूर्याय त्वां गृह्णामि, अतस्त्वं तदर्थमुपयामगृहीत उपयामेन पृथिवीकार्येण पात्रेण गृहीतोऽसि । एष हविर्धानमण्डपस्थः खरप्रदेशस्ते तव योनिः स्थानम्, अतो भ्राजस्वते दीप्तिमते सूर्याय, त्वां तत्र प्रदेशे सादयामि, ईदृशोऽयमतिग्राह्यो यस्मै सूर्याय गृह्यते किमु वक्तव्यं तस्य माहात्म्यमित्येवमुपस्थानकाले स्तुत्यर्थो ग्रहोपन्यासो लिङ्गबलात्तस्यातिग्राह्यस्य ग्रहणेऽप्ययं मन्त्रो विनियुज्यते ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ सौर्यं गृह्णाति - तरणिरिति गायत्र्या ॥ केचिदाहुरेकत्रिंशोयमनुवाकोस्मिन्प्रदेशेध्येतव्य इति । अन्ये तु यथाम्नातेनैव सौर्योतिग्राह्यो गृह्यते, नावश्यकमत्राध्ययनमित्याहुः ॥ तरणिः क्षिप्रगामी पापानां तारयिता वा । तरतेरनिप्रत्ययः । विश्वदर्शतः विश्वं दर्शयितव्यं यस्य सः विश्वदर्शतः । दृशेरौणादिकोतच्प्रत्ययः, 'बहुव्रीहौ विश्वं संज्ञायाम्' इति विश्वशब्दस्यान्तोदात्तत्वम् । यद्वा - विश्वस्य दर्शयिता विश्वदर्शतः । व्यत्ययेन पूर्वपदान्तोदात्तत्वम् । ज्योतिष्कृत् ज्योतिषः प्रकाशस्य कर्ता उत्पादयिता । यद्वा - ज्योतिषां ग्रहनक्षत्रादीनां कर्ता उद्भावयिता, त्वदधीनप्रकाशत्वात्तेषाम् । यथाहुः - 'सूर्याभिमुखानि दीप्यन्ते' इति । हे सूर्य ईदृशस्त्वमसि सत्वं विश्वां रोचनं प्रकाशकं ग्रहनक्षत्रादिकं सुषुम्नाख्येन रश्मिनानुप्रविश्य आभासि दृश्यसे लोकेन, तानि वा प्रकाशयसि, तस्मादुच्यते 'ज्योतिष्कृदसि' इति ॥
2 -3ग्रहणसादने गते । न त्वाम्नातामित्युक्तम् ॥

(इति चतुर्थे एकत्रिंशः ॥)