अनुवाकः 8 TS 1.4.8

(A8)

(अ॒यं ॅवे॒नः- पञ्च॑विꣳशतिः)

अनुवाकः 8 - Complete Audio

TS 1.4.8 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒यं ॅवे॒नश्चो॑दय॒त् पृश्ञि॑गर्भा॒ ज्योति॑र्जरायू॒
PS1.2 रज॑सो वि॒माने᳚
PS1.3 इ॒मम॒पाꣳ सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒
PS1.4 न विप्रा॑ म॒तिभी॑ रिहन्ति
PS1.5 उ॒प॒या॒मगृ॑हीतो-ऽसि॒ शण्डा॑य त्वै॒ष ते॒
PS1.6 योनि॑र् वी॒रतां᳚ पाहि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.8.1 TS 1.4.8.1
अ॒यं ॅवे॒नश्चो॑दय॒त् पृश्ञि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने᳚ । इ॒मम॒पाꣳ सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र् वी॒रतां᳚ पाहि ॥
पदपाठः (Word-by-word)
अ॒यम् । वे॒नः । चो॒द॒य॒त्॒ । पृश्नि॑गर्भा॒ इति॒ पृश्नि॑ - ग॒र्भाः॒ । ज्योति॑र्जरायु॒रिति॒ ज्योतिः॑ - ज॒रा॒युः॒ । रज॑सः । वि॒मान॒ इति॑ वि - माने᳚ ॥ इ॒मम् । अ॒पाम् । स॒गं॒म इति॑ सं - ग॒मे । सूर्य॑स्य । शिशु᳚म् । न । विप्राः᳚ । म॒तिभि॒रिति॑ म॒ति - भिः॒ । रि॒ह॒न्ति॒ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृही॒तः॒ । अ॒सि॒ । शण्डा॑य । त्वा॒ । ए॒षः । ते॒ । योनिः॑ । वी॒रता᳚म् । पा॒हि॒ ॥
पदसंख्या: 25
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमाष्टके चतुर्थप्रपाठकेऽष्टमनवमानुवाकौ)।

कल्पः – ‘अयं वेनश्चोदयति शुक्रं गृहीत्वा हिरण्येन श्रीत्वैष ते योनिर्वीरतां पाहीति सादयति’ इति।

पाठस्तु — अयं वेन इति। अयमितीन्द्रो निर्दिश्यते। वेनः कान्तोऽभीष्टः। विन कान्तावित्यस्माद्धातोरुत्पन्नत्वात्। पृश्निरादित्यस्तस्य गर्भभूता आपः। तथा चान्यत्र प्रश्नोत्तराभ्यामयमर्थः श्रूयते – ‘क्वेमा आपो निविशन्ते। यदितो यान्ति संप्रति’ इति प्रश्नः। ‘आपः सूर्ये समाहिताः। अभ्राण्यपः प्रपद्यन्ते। इत्युत्तरम्। अयं वेनः पृश्निगर्भाश्चोदयत्। अपो वर्षतीत्यर्थः। कीदृशोऽयम्’ ज्योतिर्जरायुः। विद्युल्लक्षणं तेजो जरायुवद्वेष्टनं यस्यासौ ज्योतिर्जरायुः। कुत्रायं वर्षति। रजसो विमाने। धूलेर्विशेषेण निर्माणं यस्मिञ्शुष्के भूप्रदेशे तत्र वर्षति। अपां सूर्यगर्भीभावः कथं संपन्न इति चेत्। अत्रोच्यते–विप्रा ऋत्विजः सूर्यस्यापां च संगमे निमित्तभूते सतीममिन्द्रं शिशुं स्तनंधयं शिशुमिव लालयन्ते(न्तो) मतिभिर्मन्त्रसहिताभिराहुतिभी रिहन्ति यजन्तीत्यर्थः। आहुतिदेवताभिरिमा आपो नीयन्ते। एतदेवाभिप्रेत्य श्रूयतेः – ‘भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः’ इति। हे शुक्रग्रह दारुपात्रेण गृहीतोऽसि। शुक्रपुत्राय शण्डाय त्वां गृह्णामि। एष खरैकदेशस्ते योनिः स्थानम्। तादृशस्त्वं यजमानस्य वीरतां कर्मशूरत्वं पालय।

कल्पः – ‘तं प्रत्नथेति मन्थिनं गृहीत्वा सक्तुभिः श्रीणाति एष ते योनिः प्रजाः पाहीति सादयति’ इति।

पाठस्तु — तं प्रत्नथेति। इनद्रयाजुहवुरिति ब्राह्मणादयं मन्त्र ऐन्द्रः। तमिन्द्रं स्तुम इति शेषः। प्रत्नथेत्यादौ थाप्रत्यय उपमार्थः। प्रत्नाः पुरातना भृग्वादयो यथा त्वामस्तुवंस्तथा वयमपि त्वां स्तुमः। पूर्वथा पित्रादय इव। विश्वथाऽतीताः सर्वे यजमाना इव। इमथा वतर्माना इमे यजमाना इव कीदृशमिन्द्रम्। ज्येष्ठतातिम्। स्वार्थे तातिप्रत्ययः। बर्हिषदं यागे संनिहित्वेन तिष्ठन्तम्। सुवर्विदं यजमानाय दातव्यत्वेन स्वर्गं वेत्तीति सुवर्वित्तम्। हे इन्द्र यस्त्वं प्रतीचीनं प्रतिगमनमस्मत्प्रतिकूलं वृजनं वर्जनीयमालस्याश्रद्धादि दोहसे रिक्ती करोषि विनाशयति तादृशं त्वां स्तुमः। क्व पुनः स्तुमः। यासु क्रियासु त्वमाशुं क्षिप्रकारिणं जयन्तं सम्यगनुष्ठानेन यजमानान्तरादतिशयेनोपेतं यजमानमनु सोमपानेन स्तुत्या च वर्धसे तासु क्रियासु तमिन्द्रं स्तुमः। हे मन्थिग्रह त्वमुपयामगृहीतोऽसि शुक्रपुत्राय मर्कनामकाय त्वां गृह्णामि। एष खरप्रदेशस्तव स्थानम्। त्वं यजमानस्य प्रजाः पालय।

मन्त्रानुपेक्ष्य ग्रहौ विधत्ते – ‘बृहस्पतिर्देवानां पुरोहित आसीच्छण्डामर्कावसुराणां ब्रह्मण्वन्तो देवा आसन्ब्रह्मण्वन्तोऽसुरास्तेऽन्योन्यं नाशक्नुवन्नभिभवितुं ते देवाः शण्डामर्कावुपामन्त्रयन्त तावब्रूतां वरं वृणावहै ग्रहावेव नावत्रपि गृह्येतामिति ताभ्यमेतौ शुक्रामन्थिनावगृह्णन्तो देवा अभवन्पराऽसुरा यस्यैवं विदुषः शुक्रामन्थिनौ गृह्येते भवत्यात्मना पराऽस्य भ्रातृव्यो भवति’ (सं. का. ६ प्र. ४ अ. १०) इति। ब्रह्मण्वन्तः पुरोहितानुष्ठितमन्त्रसामर्थ्योपेताः। उपामन्त्रयन्त रहस्युपच्छन्दितवन्तः। यद्यप्यन्यत्र शण्डामर्कयोरवयोर्यज्ञभागो नास्ति तथाऽप्यत्राप्यग्निष्टोमे सोऽस्तु। तत्रापि ग्रहावेव व तु लेपादिः अत्र गृह्येतामित्येतावदेव शण्डामर्काभ्यां वृतं न तु हूयेतामिति। ततो देवा ग्रहणमात्रेण स्वकार्यं साधितवन्तः।

यथार्थवादेन ग्रहयोरधस्ताल्लग्नानां पांसूनामपध्वंसनं विधातुं

विधिमुन्नयति — ‘तौ देवा अपनुद्याऽऽत्मान इन्द्रायाजुहवुरपनुत्तौ शण्डामर्कौ सहामुनेति ब्रूयाद्यं द्विष्याद्यमेव द्वेष्टि तेनैनौ सहाप नुदते’ (सं. का. ६ प्र. ४ अ. १०) इति।

देवा: स्वकार्यसिद्धेरूर्ध्वं तौ शण्डामर्कावपसार्य स्वकीयायेन्द्राय तौ शुक्रामन्थिग्रहावजुहवुः। तस्मद्ग्रहयोरधोलग्नां धूलिमपध्वंसयन्नन्यत्र समाम्नातमपनुत्ताविति मन्त्रं ब्रूयात्। अमुनेत्यत्र द्वेष्यस्य द्वेष्टुश्च नाम ध्यायेत्। अत्र सूत्रम् — ‘तौ प्रोक्षिताभ्यां शकलाभ्यामपिधायाप्रोक्षिताभ्यामधस्तात्पांसूनपध्वंसयतोऽऽपनुत्तौ शण्डामर्कौ सहामुनेत्यपनुत्तः शण्ड इति वाऽध्वर्युर्द्वेष्यं मनसा ध्यायन्नपनुत्तो मर्क इति तं प्रतिप्रस्थाता’ इति।

अन्यत्राऽऽम्नातेन मन्त्रेण ग्रहहोमस्य विधिमर्थवादेनोन्नयति — ‘स प्रथमः संकृतिर्विश्वकर्मेत्येवैनावात्मन इन्द्रायाजुहवुरिन्द्रो ह्येतानि रूपाणि करिक्रदचरत्’ (सं. का. ६ प्र. ४ अ. १०) इति।

मन्त्रपाठस्तुः – ‘स प्रथमः संकृतिर्विश्वकर्मा। स प्रथमो मित्रो वरुणो अग्निः। स प्रथमो बृहस्पतिश्चिकित्वान्। तस्मा इन्द्राय सुतमा जुहोमि’ इति।

स इन्द्र प्रथमो देवानां मुख्यः सर्वाधिपतित्वात्। समीचीना कृतिर्निर्माणं यस्यासौ संकृतिः। तादृशो विश्वकर्मनामको देवोऽपि स इन्द्र एव। मित्रो वरुणोऽग्निः स एव। चिकित्वानभिज्ञो बृहस्पतिरपि स एव। तादृशायेन्द्रायाभिषुतं सोमं सर्वतो जुहोमि। यस्मादिन्द्र एतानि विश्वकर्मत्वादीनि रूपाणि करिक्रदत्यर्थं कुर्वञ्जगदचरत्तस्मात्तत्प्रतिपादकेनानेनैव मन्त्रेण होमो युज्यते।

होमात्पुरा ग्रहावादायाऽऽच्छाद्याध्वर्युप्रतिप्रस्थातारौ प्राङ्मुखौ निर्गच्छेतामिति विधत्ते — ‘असौ वा आदित्यः शुक्रश्चन्द्रमा मन्थ्यपिगृह्य प्राञ्चौ निष्क्रामतस्तस्मात्प्राञ्चौ यन्तौ न पश्यन्ति’ (सं. का. ६ प्र. ४ अ. १०) इति।

पश्चिमदिश्यस्तं गत्वा पुनरुदयाय प्रङ्मुखतया गच्छन्तौ सूर्याचन्द्रमसौ द्रष्टुं केऽपि न शक्नुवन्ति। तस्माद्ग्रहयोराच्छादनं युक्तम्।

होमाय प्रत्यङ्मुखत्वं विधत्ते– ‘प्रत्यञ्चावावृत्य जुहुतस्तस्मात्प्रत्यञ्चौ यन्तौ पश्यन्ति’ (सं. का. ६ प्र. ४ अ. १०) इति।

उदयादूर्ध्वं प्रत्यङ्मुखतया गच्छन्तौ सूर्याचन्द्रमसौ सर्वे पश्यन्ति। अतो ग्रह-योराच्छादनमपनीय प्रत्यङ्मुखत्वेनाऽऽवृत्तिर्होमार्था युक्ता।

उत्तरवेदेरभितः परिक्रमणं विधत्ते — ‘चक्षुषी वा एते यज्ञस्य यच्छुक्रामन्थिनौ नासिकोत्तरवेदिरभितः परिक्रम्य जुहुतस्तस्मादभितो नासिकां चक्षुषी तस्मान्नासिकया चक्षुषी विधृते सर्वतः परि क्रामतो रक्षसामपहत्यै’ (सं. का. ६ प्र. ४ अ. १०) इति।

अत्र सूत्रम् – ‘उत्तरवेदिं परिक्रामतः सुवीराः प्रजाः प्रजनयन्परीहि। शुक्रः शुक्रशोचिषेति दक्षिणेनाध्वर्युः प्रतिपद्यते सुप्रजाः प्रजाः प्रजनयन्परीहि। मन्थी मन्थिशोचिषेत्युत्तरेण प्रतिप्रस्थाता’ इति। तदेतत्सर्वतः परिक्रमणं रक्षोवधाय संपद्यते।

अत्र चसहोमे प्राङ्मुखत्वं ग्रहहोमे प्रत्यङमुखत्वं च विधत्ते — ‘देवा वै याः प्राचीराहुतीरजुहवुर्ये पुरस्तादसुरा आसन्तस्ताभिः प्राणुदन्त याः प्रतीचीर्ये पश्चादसुरा आसन्तास्ताभिरपानुदन्त प्राचीरन्या आहुतयो हूयन्ते प्रत्यञ्चौ शुक्रामन्थिनौ पश्चाच्चैव पुरस्ताच्च यजमानो भ्रतृव्यान्प्र णुदते तस्मात्पराचीः प्रजाः प्र वीयन्ते प्रतीचीर्जायन्ते’ (सं. का. ६ प्र. ४ अ. १०) इति।

अत्र सूत्रम् — ‘पुरस्तात्प्रत्यञ्चावध्वर्यू जुहुतः पश्चात्प्राञ्चश्चमसैश्चसमसाध्वर्यवो जुह्वति’ इति वाक्यं तु धिष्ण्यप्रस्तावेऽपि गतम्।

सूत्रकारेणोदाहृतौ परिक्रमणमन्त्रौ प्रदेशान्तर आम्नाताविह व्याचष्टे — ‘शुक्रामन्थिनौ वा अनु प्रजाः प्र जायन्तेऽत्रीश्चाऽऽद्याश्च सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिषा सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशौचिषेत्याहैता वै सुवीरा या अत्रीरेताः सुप्रजा या आद्याः’ (सं. का. ६ प्र. ४ अ. १०) इति।

अत्रीर्भोक्त्र्य उत्तमजातयो ब्राह्मणादय आद्या भोग्या नीचजातयो भृत्यकर्मकरादयः। मन्त्रार्थस्तु — शोभना वीरा उत्तमा यासां ताः सुवीराः। शोभनाः सेवाकुशलाः प्रजाः पुत्रादयो यासां ताः सुप्रजाः। हे शुक्रग्रह त्वं यजमानस्य शोभनभोक्तृयुक्ताः प्रजा उत्पादयन्नुत्तरवेदेर्दक्षिणतः परीहि। शुक्रग्रहस्त्वं शुक्रदेवतासंबन्धिना तेजसा रक्षसामपघातं कुर्विति शेषः। हे मन्थिग्रह त्वं यजमानस्य शोभनसेवकरूपाः प्रजा उत्पादयन्नुत्तरवेदेरुत्तरतः परीहि। मन्थिग्रहस्त्वं मन्थिदेवतासंबन्धिना तेजसा रक्षांस्यपजहि। एता वै सुवीरा इत्यादिकं मन्त्रव्याख्यानम्।

वेदनं प्रशंसति — “य एवं वेदात्र्यस्य प्रजा जायते नाऽऽद्या” (सं. का. ६ प्र. ४ अ. १०) इति।

मन्थिपात्रस्य विकङ्कतवृक्षत्वं सक्तुमेलनं च विधत्ते — “प्रजापतेरक्ष्यश्वयत्तत्पराऽपतत्तद्विकङ्कतं प्राविशत्तद्विङ्कते नारमत तद्यवं प्राविशत्तद्यवेऽरमत तद्यवस्य यवत्वं यद्वैकङ्कतं मन्थिपात्रं भवति सक्तुभिः श्रीणाति प्रजापतेरेव तच्चक्षुः सं भरति” (सं. का. ६ प्र. ४ अ. १०) इति। सक्तवो यवपिष्टानि।

आहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्तीति वचनादितरपात्रवन्मन्थिपात्रस्यापि सदःप्रवेशः प्राप्नोति तन्निषेधं प्रश्नोत्तराभ्यामुन्नयति — “ब्रह्मवादिनो वदन्ति कस्मात्सत्यान्मन्थिपात्र सदो नाश्नुत इत्यार्तपात्र हीति ब्रूयाद्यदश्नुवीतान्धोऽध्वर्युः स्यादार्तिमार्च्छेत्तस्मान्नश्नुते” (सं. का. ६ प्र. ४ अ. १०) इति। आर्तपात्रं रोगयुक्तचक्षुःस्वरूपमिदं पात्रम्।

अथ मीमांसा।

दशमाध्यायस्य पञ्चमे पादे चिन्तितम् —

“स्वस्थाने प्रतिकर्षो वा शुक्रादेः पूर्ववद्भवेत्।

स्थाने मैवं तदग्रत्वाप्राप्तेः स प्रतिकृष्यताम्” इति।

ज्यौतिष्टमे श्रुयते – “शुक्राग्रान्गृह्णीयादभिचरतो मन्थ्यग्रान्गृह्णीयादभिचर्यमाणस्य” इत्यादि। ऐन्द्रवायवन्यायेन शुक्रादीनां स्वस्थाने ग्रहणमिति प्राप्ते ब्रूमः – ऐन्द्रवायवस्य धाराग्रहाग्रत्वं स्वस्थाने पाठादेव प्राप्तम्। शुक्रादीनां तु नेति वैषम्यम्। तथा सति विधीयमानमग्रत्वं पाठक्रमबाधमन्तरेणानुपपन्नत्वात्प्रतिकृष्यते।

तत्रैवान्यच्चिन्तितम् —

“स सर्वादावैन्द्रवायवादौ वाऽत्राविशेषतः।

सर्वादावाश्रयादैन्द्रवायवादौ धृतेरपि” इति।

स पूर्वोक्तः प्रतिकर्षः सर्वेषामुपांश्वादीनां ग्रहाणामादौ युक्तः। कुतः। विशेषाश्रवणात्। सामान्यतः श्रुतमग्रत्वमनपेक्षितत्वात्सर्वादौ मुख्यम्। नैतदेवम्। प्राकृतानधाराग्रहानाश्रित्य फलाय शुक्राग्रत्वविधानात्। किंच “धारयेयुस्तं यं कामाय गृह्णीयुरैन्द्रवायवं गृहीत्वा सादयेत्” इति श्रूयते। तत्र काम्यस्य शुक्रादेर्धारणाद्वाऽनन्तरमैन्द्रवायवग्रहणं विवक्षितार्थे लिङ्गम्। तस्मान्दैन्द्रवायवादौ प्रतिकर्षः।

तत्रैवान्यच्चिन्तितम् — “नापकर्षोऽपकर्षो वा सादनस्याश्रुतत्वतः।

न मैवं ग्रहशेषत्वात्तच्चाशक्तेर्ग्रहान्तरे” इति।

सर्वत्र ग्रहो गृहीत्वा साद्यते। तथा सति यत्र कामस्य ग्रहस्यापकर्षस्तत्र सादनस्यापकर्षो न शङ्कनीयः। अश्रुतत्वात्। शुक्रग्रानित्वत्र (ग्र) शब्देन यथा ग्रहस्यापकर्षः श्रूयते न तथा सादनापकर्षप्रतिपादकः कश्चिच्छब्दोऽस्ति। तस्मान्नापकर्षः। नैतद्युक्तम्। सादनस्य ग्रहशेषत्वात्। तच्च शेषत्वमशक्तेरवगम्यते। न हि पूर्वं ग्रहमसादयित्वा ग्रहान्तरं ग्रहीतुं शक्यम्। अतोऽत्र ग्रहाणामपकर्षे तच्छेषभूतं सादनमप्यपकृष्यते।

अथ च्छन्दः –

अयं वेन इति त्रिष्टुप्। तं प्रत्नथेति जगती॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठकेऽष्टमनवमानुवाकौ॥८॥९॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 शुक्रं गृह्णाति - अयं वेन इति त्रिष्टुभा चतुष्पदया ॥ वेनतेः कान्तिकर्मणो वेनः कान्तः वर्षाद्यभीष्टप्रद उच्यते । ज्योतिर्जरायुः ज्योतिर्जरायुस्थनीयमाच्छादिकं, यस्य जरायुणा गर्भ इव तजसा वेष्टितस्तेजोराशिरित्यथरः । इर्दृशोयं वेनशब्दवाच्य इन्द्रः, पृश्निरादित्यः तस्मिन्गर्भाः पृश्निगर्भाः गर्भ्यमाणाः । पचाद्यच् । गर्भवद्वर्धमाना आपः, भूमिगतान्हि रसान्सूर्यरश्मयो वायुना सह सूर्यमण्डले स्थापयन्ति, ते च तस्मिन्वर्धन्ते, आगामिसंवत्सरवृष्ट्यर्थम् । यथोक्तं - 'समानमेतदुदकम्' इत्यादि । सप्तमीपूर्वपदप्रकृतिस्वरत्वम् । ताश्च स्वकाले सूर्येण समर्पितश्चोदयत् चोदयति । लेट् । भुवं प्रतिप्रेरयत्ययमादित्यो वेनः । तथा चोक्तम् - 'यदा खलु वा असावादित्यो न्यङ्रश्मिभिः' इत्यादि । कुत्र स्थितोयमेवं करोतीत्यत आह - रजस उदकस्य विमाने निर्माणस्थानेन्तरिक्षे । कृदुत्तरपदप्रकृतिस्वरत्वम् । य एवं प्रजानामुपकरोतीमं वेनं खलु विप्रा मेधाविनो मतिभिर्बुद्धिभिः रिहन्ति लिहन्ति । रलयोरेकत्वं स्मरन्ति । स्तुवन्ति पूजयन्ति बुद्धिपूर्वकमेव ते स्तवादि कुर्वन्तीति भावः । हविःप्रदानादिना संवर्धयन्तो न त्यजन्तीत्यर्थः । 'मन्त्रे वृष' इति क्तिन उदात्तत्वम् । शिशुं न शिशुमिव यथा शिशुं क्षीरादिदानेन संवर्धयन्ति । किमर्थं ? सूर्यस्यापां च सङ्गमे सङ्गमनाय सूर्यस्याद्भिस्सङ्गमो यथा स्यात् वृद्ध्यर्थं तदर्थमित्यर्थः । 'ग्रहवृदृनिश्चिगमश्च' इत्यप्, थाथास्वरेणोत्तरपदान्तोदात्तत्वम् । यद्वा - अयं वेनः कमनीयरूपः, ज्योतिर्जरायुः ज्योतिषा जरायुस्थनीयेन वेष्टितः रजसो विमाने स्थितः । रजोनाम गर्भधारणहेतुर्योनिस्थ उदकविशेषः ; तन्निर्माणस्थाने प्रजननस्थानीये स्थितः । पृश्निगर्भाः प्रेरयति काले प्रसूत्यर्थं मातर मिव त्वरयति । गर्भं करोतीति गर्भयिता गर्भः । पचाद्यच् । पृश्निर्गर्भो यासां ताः अपः प्रेरयति काले वृष्ट्यर्थम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ततस्स पुत्रस्थानीयः प्रसूतः पर्जन्यात्मा वर्षति । एनमिमं वेनाख्यं सूर्यस्यापां सङ्गमे संयोगे प्रसूतं शिशुमिव विप्रा मतिभिः पूजयन्तीति । सूर्यो हि भार्यास्थानीया अपस्सङ्गच्छति , वत्सरान्ते चायं जायते, जातश्च वर्षति । वृष्टं चोदकं रश्मय आदाय सूर्याय समर्पयन्ति । स च ता अंपस्सङ्गच्छतीति । यत एवं तस्मादहमपि तत्पूजार्थं शुक्रं गृह्णामीति शेषः । ननु शण्डाय गृह्यते ? सत्यं इन्द्रायैव तु हूयते, 'इन्द्राय सुतमा जुहोमि' इति होममन्त्रलिङ्गात् । 'तौ देवा अपनुद्यात्मन इन्द्रायाजुहवुः' इति च ब्राह्मणम् ॥

इमामनुद्रुत्योपयामगृहीतोसि शण्डाय त्वेति गृह्णाति ॥ शण्डो नामासुरपुरोहितः ॥

2 एष ते योनिर्वीरतां पाहीति सादयति ॥ वीरता शूरता यागलक्षणत्यागं प्रति । 'बृहस्पतिर्देवानां पुरोहित आसीत्' इत्यादि ब्राह्मणम् । 'असौ वा आदित्यश्शुक्रश्चन्द्रमा मन्थी' इत्यादि, 'चक्षुषी वा एते यज्ञस्य यच्छुक्रामन्थिनौ' इत्यादि च ॥
इति चतुर्थेऽष्टमः ॥