अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वꣳ शि॒वेभि॑र॒द्य परि॑पाहि नो॒ गयं᳚ । हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशꣳ॑स ईशत ॥ उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥
पदपाठः (Word-by-word)
अद॑ब्धेभिः । स॒वि॒तः॒ । पा॒युभि॒रिति॑ पा॒यु - भिः॒ । त्वम् । शि॒वेभिः॑ । अ॒द्य । परीति॑ । पा॒हि॒ । नः॒ । गय᳚म् ॥ हिर॑ण्यजिह्व॒ इति॒ हिर॑ण्य - जि॒ह्वः॒ । सु॒वि॒ताय॑ । नव्य॑से । रक्ष॑ । माकिः॑ । नः॒ । अ॒घशꣳ॑स॒ इत्य॒घ - शꣳ॒॒सः॒ । ई॒श॒त॒ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । दे॒वाय॑ । त्वा॒ । स॒वि॒त्रे ॥
सायणभाष्यम् (Sayana Commentary)
अत्रैव विकल्पितो द्वितीयो मन्त्र एवमाम्नायते — अदब्धेभिरिति। हे सवितस्त्वमब्धेभिरहिंसितैः पायुभिः पालकैः शिवेभिर्मंङ्गलैरनुग्रहविशेषैर्नोऽस्माकं गयं गृहं परिपाहि सर्वतो रक्ष। हिरण्यजिह्वो हिता रमणीया जिह्वा यस्य सोऽस्माकं हितं प्रियं च वदतीत्यर्थः। तादृशस्त्वं सुविताय सुष्ठुगमनाय स्वर्गप्राप्तये नव्यसे नूतनाय तदिदं कर्म रक्ष। नोऽस्माकमघशंसः पापापवादनिन्दको भवान्माकिरीशत शक्तो मा भूत्।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सावित्रस्यैव ग्रहणविकल्पः र्पूवेंण सह विकृत्यर्थः- अदब्धेभिरिति चतुष्पदया त्रिष्टुभा ॥ हे सवितः अद्य अस्मिन्नहनि नः अस्माक गयं गृहं परिपाहि सर्वतो रक्ष अदब्धेभिः अदब्धैः केनाप्यहिंसितैः क्वचिदप्यप्रतिहतैर्वा पायुभिः पालनैः प्रजानां रसानाम् । त्रिभिर्वा रश्मय उच्यन्ते । शिवेभिश्शिवैश्शान्तकलुषैः पावनैरिति यावत् । 'बहुलं छन्दसि' इत्यैसभावः । पायुभिरित्यत्र ' कृपावाजि' इत्यादिनोण्प्रत्ययः 'युष्मत्तत्ततक्षुष्वन्तः पादं' इति संहितायां भिसस्सकारस्य षत्वम् । एवमैहिकभोग स्थानगृहस्य रक्षा प्रार्थिता । आमुष्मिकसुखस्थानमधुना प्रार्थयते - सुविताय सुष्टु इताय प्राप्ताय स्थानाय सुकृतेन प्राप्तायेति यावत् । 'तन्वादीनां छन्दसि बहुलम्' इत्युवङादेशः 'सूपमानात्कः' इत्युत्तरपदान्तोदात्तत्वम् । नव्यसे नवतराय सर्वदाभिनवाय । इर्यसुन ईकारस्य यकारस्य वा छान्दसो लोपः । ईदृशमस्मदीयं स्वर्गस्थानं रक्षेत्यर्थः । हिरण्यजिह्वस्त्वं रसाहरण साधनतया जिह्वास्थानीया रश्मयो जिह्व उच्यन्ते, हिरण्यस्वभावाः क्रमणशीलाः जिह्वा यस्य तादृशस्त्वं रक्ष । हर्य गतिकान्त्योः, 'हर्यतेः कन्यन् हिर च' इति कन्यन्प्रत्ययः । किञ्च - नः अस्माकं कश्चिदप्यघशंसः अघे शंसनमभिलाषो यस्य तादृशो माकिरीशिता मा ईशिष्ट । माकिरिति छान्दस उपजनः; निपातान्तरं वा, यथाह गणकारः - 'यत्र माकिर्नकिर्नभ' इति । ईष्टेर्लङि विकरणव्यत्ययेन च्लेरङादेशः । 'अनुदात्ते च कुधपरे' इति संहितायां प्रकृतिभावः । 'द्व्यचोतस्तिङः' इति रक्षेत्यस्य दीर्घः । इत्थं प्रार्थयमानानामस्माकं न कश्चिदप्यनिष्टकृत्स्यादित्यर्थः ॥
2 उपयामगृहीतोसीत्यादि पूर्ववत् ॥
इति चतुर्थे चतुर्विंशोनुवाकः ॥