प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.4.44.2 TS 1.4.44.2
त्वनु॑ मार्ष्टु त॒नुवो॒ यद्विलि॑ष्टं ॥ यद॒द्य त्वा᳚ प्रय॒ति य॒ज्ञे अ॒स्मिन्नग्ने॒ होता॑र॒मवृ॑णीमही॒ह । ऋध॑गया॒डृध॑गु॒ताऽश॑मिष्ठाः प्रजा॒नन्. य॒ज्ञ्मुप॑ याहि वि॒द्वान् ॥ स्व॒गा वो॑ देवाः॒ सद॑नमकर्म॒ य आ॑ज॒ग्म सव॑ने॒दं जु॑षा॒णाः । ज॒क्षि॒वाꣳसः॑ पपि॒वाꣳस॑श्च॒ विश्वे॒ऽस्मे ध॑त्त वसवो॒ वसू॑नि ॥ यानाऽव॑ह उश॒तो दे॑व दे॒वान् तान्-[ ]
पदपाठः (Word-by-word)
अन्विति॑ । मा॒र्ष्टु॒ । त॒नुवः॑ । यत् । विलि॑ष्ट॒मिति॒ वि - लि॒ष्ट॒म् ॥ यत् । अ॒द्य । त्वा॒ । प्र॒य॒तीति॑ प्र - य॒ति । य॒ज्ञे । अ॒स्मिन्न् । अग्ने᳚ । होता॑रम् । अवृ॑णीमहि । इ॒ह ॥ ऋध॑क् । अ॒या॒ट् । ऋध॑क् । उ॒त । अश॑मिष्ठाः । प्र॒जा॒नन्निति॑ प्र - जा॒नन्न् । य॒ज्ञ्म् । उपेति॑ । या॒हि॒ । वि॒द्वान् ॥ स्व॒गेति॑ स्व - गा । वः॒ । दे॒वाः॒ । सद॑नम् । अ॒क॒र्म॒ । ये । आ॒ज॒ग्मेत्या᳚ - ज॒ग्म । सव॑ना । इ॒दम् । जु॒षा॒णाः ॥ ज॒क्षि॒वाꣳसः॑ । प॒पि॒वाꣳसः॑ । च॒ । विश्वे᳚ । अ॒स्मे इति॑ । ध॒त्त॒ । व॒स॒वः॒ । वसू॑नि ॥ यान् । एति॑ । अव॑हः । उ॒श॒तः । दे॒व॒ । दे॒वान् । तान् ।
पदसंख्या: 50