प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे᳚ । वह॑माना॒ भर॑माणा ह॒वीꣳषि॒ वसुं॑ घ॒र्मं दिव॒मा ति॑ष्ठ॒तानु॑ । यज्ञ्॑ य॒ज्ञ्ं ग॑च्छ य॒ज्ञ्प॑तिं गच्छ॒ स्वां ॅयोनिं॑ गच्छ॒ स्वाहै॒ष ते॑ य॒ज्ञो य॑ज्ञ्पते स॒हसू᳚क्तवाकः सु॒वीरः॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुं ॅवि॒त्त्वा गा॒तुमि॑त॒ मन॑सस्पत इ॒मं नो॑ देव दे॒वेषु॑ य॒ज्ञ्ꣳ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ॥
पदपाठः (Word-by-word)
प्रेति॑ । ई॒र॒य॒ । स्वे । अ॒ग्ने॒ । स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ॥ वह॑मानाः । भर॑माणाः । ह॒वीꣳषि॑ । वसु᳚म् । घ॒र्मम् । दिव᳚म् । एति॑ । ति॒ष्ठ॒त॒ । अनु॑ ॥ यज्ञ्॑ । य॒ज्ञ्म् । ग॒च्छ॒ । य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ् - प॒ति॒म् । ग॒च्छ॒ । स्वाम् । योनि᳚म् । ग॒च्छ॒ । स्वाहा᳚ । ए॒षः । ते॒ । य॒ज्ञ्ः । य॒ज्ञ्॒प॒त॒ इति॑ यज्ञ् - प॒ते॒ । स॒हसू᳚क्तवाक॒ इति॑ स॒हस᳚क्त - वा॒कः॒ । सु॒वीर॒ इति॑ सु - वीरः॑ । स्वाहा᳚ । देवाः᳚ । गा॒तु॒वि॒द॒ इति॑ गातु - वि॒दः॒ । गा॒तुम् । वि॒त्त्वा । गा॒तुम् । इ॒त॒ । मन॑सः । प॒ते॒ । इ॒मम् । नः॒ । दे॒व॒ । दे॒वेषु॑ । य॒ज्ञ्म् । स्वाहा᳚ । वा॒चि । स्वाहा᳚ । वाते᳚ । धाः॒ ॥(कृ॒णो॒तु॒ - तान॒ - ष्टाच॑त्वारिꣳशच्च )(आ44 )