स॒मिधं॑ ॅयक्ष्यग्ने ॥ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्येथ् समु॒द्रे ते॒ हृद॑यम॒फ्स्व॑न्तः । सं त्वा॑ विश॒न्त्वोष॑धी-रु॒ताऽऽपो॑ य॒ज्ञ्स्य॑ त्वा यज्ञ्पते ह॒विर्भिः॑ ॥ सू॒क्त॒वा॒के न॑मोवा॒के वि॑धे॒माऽव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कु॒णाऽव॑ दे॒वैर् दे॒वकृ॑त॒मेनो॑ऽया॒डव॒ मर्त्यै॒र् मर्त्य॑कृतमु॒रोरा नो॑ देव रि॒षस्पा॑हि सुमि॒त्रा न॒ आप॒ ओष॑धयः - [ ]
पदपाठः (Word-by-word)
स॒मिध॒मिति॑ सं - इध᳚म् । य॒क्षि॒ । अ॒ग्ने॒ ॥ प्रतीति॑ । ते॒ । जि॒ह्वा । घृ॒तम् । उदिति॑ । च॒र॒ण्ये॒त् । स॒मु॒द्रे । ते॒ । हृद॑यम् । अ॒फ्स्वित्य॑प् - सु । अ॒न्तः ॥ समिति॑ । त्वा॒ । वि॒श॒न्तु॒ । ओष॑धीः । उ॒त । आपः॑ । य॒ज्ञ्स्य॑ । त्वा॒ । य॒ज्ञ्॒प॒त॒ इति॑ यज्ञ् - प॒ते॒ । ह॒विर्भि॒रिति॑ ह॒विः - भिः॒ ॥ सू॒क्त॒वा॒क इति॑ सूक्त - वा॒के । न॒मो॒वा॒क इति॑ नमः - वा॒के । वि॒धे॒म॒ । अव॑भृ॒थेत्यव॑ - भृ॒थ॒ । नि॒च॒ङ्कु॒णेति॑ नि - च॒ङ्कु॒ण॒ । नि॒चे॒रुरिति॑ नि - चे॒रुः । अ॒सि॒ । नि॒च॒ङ्कु॒णेति॑ नि - च॒ङ्कु॒ण॒ । अवेति॑ । दे॒वैः । दे॒वकृ॑त॒मिति॑ दे॒व - कृ॒त॒म् । एनः॑ । अ॒या॒ट् । अवेति॑ । मर्त्यैः᳚ । मर्त्य॑कृत॒मिति॒ मर्त्य॑ - कृ॒त॒म् । उ॒रोः । एति॑ । नः॒ । दे॒व॒ । रि॒षः । पा॒हि॒ । सु॒मि॒त्रा इति॑ सु - मि॒त्राः । नः॒ । आपः॑ । ओष॑धयः ।