सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒र् यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो देवी॑राप ए॒ष वो॒ गर्भ॒स्तं ॅवः॒ सुप्री॑तꣳ॒॒ सुभृ॑त-मकर्म दे॒वेषु॑ नः सु॒कृतो᳚ ब्रूता॒त् प्रति॑युतो॒ वरु॑णस्य॒ पाशः॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाश॒ एधो᳚ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि तेजो॒ मयि॑ धेह्य॒पो अन्व॑चारिषꣳ॒॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाꣳ अग्न॒ आ ( ) ऽग॑मं॒ तं मा॒ सꣳ सृ॑ज॒ वर्च॑सा ॥
पदपाठः (Word-by-word)
स॒न्तु॒ । दु॒र्मि॒त्रा इति॑ दुः-मि॒त्राः । तस्मै᳚ । भू॒या॒सुः॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । देवीः᳚ । आ॒पः॒ । ए॒षः । वः॒ । गर्भः॑ । तम् । वः॒ । सुप्री॑त॒मिति॒ सु - प्री॒त॒म् । सुभृ॑त॒मिति॒ सु - भृ॒त॒म् । अ॒क॒र्म॒ । दे॒वेषु॑ । नः॒ । सु॒कृत॒ इति॑ सु-कृतः॑ । ब्रू॒ता॒त् । प्रति॑युत॒ इति॒ प्रति॑ - यु॒तः॒ । वरु॑णस्य । पाशः॑ । प्रत्य॑स्त॒ इति॒ प्रति॑ - अ॒स्तः॒ । वरु॑णस्य । पाशः॑ । एधः॑ । अ॒सि॒ । ए॒धि॒षी॒महि॑ । स॒मिदिति॑ सम् - इत् । अ॒सि॒ । तेजः॑ । अ॒सि॒ । तेजः॑ । मयि॑ । धे॒ह॒ । अ॒पः । अन्विति॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । समिति॑ । अ॒सृ॒क्ष्म॒हि॒ । पय॑स्वान् । अ॒ग्ने॒ । एति॑ ( ) । अ॒ग॒म॒म् । तम् । मा॒ । समिति॑ । सृ॒ज॒ । वर्च॑सा ॥