प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.4.46.2 TS 1.4.46.2
सु॒तासः॑ । यदीꣳ॑ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते ॥ अग्ने॒ रसे॑न॒ तेज॑सा॒ जात॑वेदो॒ वि रो॑चसे । र॒क्षो॒हाऽमी॑व॒चात॑नः ॥ अ॒पो अन्व॑चारिषꣳ॒॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाꣳ अग्न॒ आऽग॑मं॒ तं मा॒ सꣳ सृ॑ज॒ वर्च॑सा ॥वसु॒र् वसु॑पति॒र्॒. हिक॒मस्य॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒तावपि॑ ॥ त्वाम॑ग्ने॒ वसु॑पतिं॒ ॅवसू॑नाम॒भि प्र म॑न्दे-[ ]
पदपाठः (Word-by-word)
सु॒तासः॑ ॥ यत् । ई॒म् । स॒बाध॒ इति॑ स - बाधः॑ । पि॒तर᳚म् । न । पु॒त्राः । स॒मा॒नद॑क्षा॒ इति॑ समा॒न-द॒क्षाः॒ । अव॑से । हव॑न्ते ॥ अग्ने᳚ । रसे॑न । तेज॑सा । जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ । वीति॑ । रो॒च॒से॒ ॥ र॒क्षो॒हेति॑ रक्षः - हा । अ॒मी॒व॒चात॑न॒ इत्य॑मीव - चात॑नः ॥ अ॒पः । अन्विति॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । समिति॑ । अ॒सृ॒क्ष्म॒हि॒ ॥ पय॑स्वान् । अ॒ग्ने॒ । एति॑ । अ॒ग॒म॒म् । तम् । मा॒ । समिति॑ । सृ॒ज॒ । वर्च॑सा ॥ वसुः॑ । वसु॑पति॒रिति॒ वसु॑ - प॒तिः॒ । हिक᳚म् । असि॑ । अ॒ग्ने॒ । वि॒भाव॑सु॒रिति॑ वि॒भा - व॒सुः॒ ॥ स्याम॑ । ते॒ । सु॒म॒ताविति॑ सु-म॒तौ । अपि॑ ॥ त्वाम् । अ॒ग्ने॒ । वसु॑पति॒मिति॒ वसु॑ - प॒ति॒म् । वसू॑नाम् । अ॒भि । प्रेति॑ । म॒न्दे॒ ।
पदसंख्या: 50