अद्ध्व॒रेषु॑ राजन्न् । त्वया॒ वाजं॑ ॅवाज॒यन्तो॑ जयेमा॒-ऽभिष्या॑म पृथ्सु॒तीर् मर्त्या॑नां । त्वाम॑ग्ने वाज॒सात॑मं॒ ॅविप्रा॑ वर्द्धन्ति॒ सुष्टु॑तं । स नो॑ रास्व सु॒वीर्यं᳚ ॥ अ॒यं नो॑ अ॒ग्निर्वरि॑वः कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन्न् ॥ अ॒यꣳ शत्रू᳚ञ्जयतु॒ जर्.हृ॑षाणो॒ऽयं ॅवाजं॑ जयतु॒ वाज॑सातौ ॥ अ॒ग्निना॒ऽग्निः समि॑द्ध्यते क॒विर् गृ॒हप॑ति॒र् युवा᳚ । ह॒व्य॒वाड्-जु॒ह्वा᳚स्यः ॥ त्वꣳ ह्य॑ग्ने ( ) अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्थ्स॒ता । सखा॒ सख्या॑ समि॒द्ध्यसे᳚ ॥उद॑ग्ने॒ शुच॑य॒स्तव॒वि ज्योति॑षा॥
पदपाठः (Word-by-word)
अ॒द्ध्व॒रेषु॑ । रा॒ज॒न्न् ॥ त्वया᳚ । वाज᳚म् । वा॒ज॒यन्त॒ इति॑ वाज - यन्तः॑ । ज॒ये॒म॒ । अ॒भीति॑ । स्या॒म॒ । पृ॒थ्सु॒तीः । मर्त्या॑नाम् ॥ त्वाम् । अ॒ग्ने॒ । वा॒ज॒सात॑म॒मिति॑ वाज - सात॑मम् । विप्राः᳚ । व॒र्ध॒न्ति॒ । सुष्टु॑त॒मिति॒ सु - स्तु॒त॒म् ॥ सः । नः॒ । रा॒स्व॒ । सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ॥ अ॒यम् । नः॒ । अ॒ग्निः । वरि॑वः । कृ॒णो॒तू॒ । अ॒यम् । मृधः॑ । पु॒रः । ए॒तु॒ । प्र॒भि॒न्दन्निति॑ प्र - भि॒न्दन्न् ॥ अ॒यम् । शत्रून्॑ । ज॒य॒तु॒ । जर्.हृ॑षाणः । अ॒यम् । वाज᳚म् । ज॒य॒तु॒ । वाज॑सात॒विति॒ वाज॑-सा॒तौ॒ ॥ अ॒ग्निना᳚ । अ॒ग्निः । समिति॑ । इ॒द्ध्य॒ते॒ । क॒विः । गृ॒हप॑ति॒रिति॑ गृ॒ह - प॒तिः॒ । युवा᳚ ॥ ह॒व्य॒वाडिति॑ हव्य - वाट् । जु॒ह्वा᳚स्य॒ इति॑ जु॒हु - आ॒स्यः॒ ॥ त्वम् । हि । अ॒ग्ने॒ ( ) । अ॒ग्निना᳚ । विप्रः॑ । विप्रे॑ण । सन्न् । स॒ता ॥ सखा᳚ । सख्या᳚ । स॒मि॒द्ध्यस॒ इति॑ सम् - इ॒द्ध्यसे᳚ ॥ उदिति॑ । अ॒ग्ने॒ । शुच॑यः । तव॑ । वीति॑ । ज्योति॑षा ॥