प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.4.5.1 TS 1.4.5.1
अ॒यं ॅवां᳚ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑तꣳ॒॒ हवं᳚ । उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यां त्वै॒ष ते॒ योनि॑र्. ऋता॒युभ्यां᳚ त्वा ॥
पदपाठः (Word-by-word)
अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ । सु॒तः । सोमः॑ । ऋ॒ता॒वृ॒धेत्यृ॑त - वृ॒धा॒ ॥ मम॑ । इत् । इ॒ह । श्रु॒त॒म् । हव᳚म् ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒हीतः॒ । अ॒सि॒ । मि॒त्रावरु॑णाभ्या॒मिति॑ मि॒त्रा - वरु॑णाभ्याम् । त्वा॒ । ए॒षः । ते॒ । योनिः॑ । ऋ॒ता॒युभ्या॒मित्यृ॑ता॒यु - भ्या॒म् । त्वा॒ ॥
पदसंख्या: 20
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे चतुर्थप्रपाठके पञ्चमोऽनुवाकः)।

कल्पः – “अयं वां मित्रावरुणेति मैत्रावरुणं गृहीत्वा शृतशीतेन पयसा श्रीत्वा, एष ये योनितायुभ्यां त्वेति सादयति” इति।

मन्त्रपाठस्तु – अयं वामिति। हे ऋतावृधा सत्यस्य वर्धकौ मित्रावरुणौ युवयोः सोमः सुतोऽभिषुतः। इदिति हेतौ। यस्मादभिषुतस्तस्मादिह कर्मणि मम हवं मदीयमाह्वानं श्रुतं युवां शृणुतम्। ऋतायुभ्यां सत्यमिच्छद्भ्यां मित्रावरुणाभ्याम्। स्पष्टमन्यत्।

मन्त्रानुपेक्ष्य गृहीतस्य सोमरसस्य क्षीरमेलनं विधित्सुः प्रस्तौति – ‘मित्रं देवा अब्रुवन्त्सोम राजान हनामेति सोऽब्रुवीन्नाह सर्वस्य वा अहं मित्रमस्मीति तमब्रुवन्हनामैवेति सोऽब्रवीद्वरं वृणै पयसैव मे सोम श्रीणन्निति तस्मान्मैत्रावरुणं पयसा श्रीणन्ति तस्मात्पशवोऽपाक्रामन्मित्रः सन्क्रूरमकरिति’ (सं. का. ६ प्र. ४ अ. ८) इति।

हनाम त्वया सहिता वयमित्यर्थः। नाहं सोमं हन्मीति शेषः। सर्वमित्रत्वमहनने हेतुः। अत एवास्माकमपि मित्रत्वाद्धनामैवास्मदीयं कार्यं हननरूपं त्वया सहैव कुर्मः। श्रीणन्मिश्रयेयुः। क्रूरं सोमवधं कृतवतस्तस्मान्मित्राद्भीता पशवोऽपक्रान्ताः।

विधत्ते – ‘क्रूरमिव खलु वा एष करोति यः सोमेन यजते तस्मात्पशवोऽप क्रामन्ति यन्मैत्रावरुणं पयसा श्रीणाति पशुभिरेव तन्मित्र समर्धयति पशुभिर्यजमानम्’ (सं. का. ६ प्र. ४ अ. ८) इति। तत्तेन श्रयणेन मित्रदेवयजमानयोः पशुसमृद्धिर्भवति।

अस्तु यजमानस्य पशुसमृद्धिर्मित्रस्य तु कुतस्त्येत्याशङ्क्य तदर्थमेव च तस्य वृतत्वादित्याह – ‘पुरा खलु वावैवं मित्रोऽवेदप मत्क्रूरं चक्रुषः पशवः क्रमिष्यन्तीति तस्मादेवमवृणीत’ (सं. का. ६ प्र. ४ अ. ८) इति।

क्रूरं सोमवधं कृतवतो मत्तोऽपक्रमिष्यन्तीत्यमुमर्थं मित्रः सोमवधात्पुरैव खल्ववेद्विदितवान्। तस्मादेव कारणात्पशुसमृद्धिहेतुं क्षीरमिश्रणमवृणीत।

अथ मित्रावरुणयोरेकेनैव पात्रेण ग्रहणं विधत्ते – ‘वरुणं देवा अब्रुवन्त्वयाऽशभुवा सोम राजान हनामेति सोऽब्रवीद्वरं वृणै मह्यं चैवैष मित्राय च सह गृह्याता इति तस्मान्मैत्रावरुणः सह गृह्यते तस्माद्राज्ञा राजानमशभुवा घ्नन्ति वैश्येन वैश्य शूद्रेण शूद्रम्’ (सं. का. ६ प्र. ४ अ. ८) इति।

अंशं द्रव्यभागं भवते प्राप्नोतीत्यंशभूर्दायादः। सोमो वरुणश्च परस्परं दा यादौ। इन्द्रो वरुणः सोमो रुद्र इत्यादिना बृहदारण्यके क्षत्त्रियत्वेनैककुलवर्तित्वस्य समाम्नातत्वात्। यस्मादंशभुवा वरुणेन सह सोमं हनामेति देवैरुक्तं तस्माल्लोकेऽपि तथा कुर्वन्ति। तद्यथा रामो विभीषणेनांशभुवा सहितो रावणं जघान। वैश्यशूद्रयोरप्युदाहार्यम्।

मैत्रावरुणस्यैन्द्रवायवानन्तर्यं विधत्ते – ‘न वा इदं दिवा न नक्तमासीदव्यावृत्तं ते देवा मित्रावरुणावब्रुवन्निदं नो वि वासयतमिति तावब्रूतां वरं वृणावहा एक एवाऽऽवत्पूर्वो ग्रहो गृह्याता इति तस्मादैन्द्रवायवः पूर्वो मैत्रावरुणाद्गृह्यते’ (सं. का. ६ प्र. ४ अ. ८) इति।

इदं कालस्वरूपमव्यावृत्तमविभक्तं पूर्वमासीत्। एतावदहरिति दिवा नाऽऽसीत्। एतावती रात्रिरिति नक्तं नाऽऽसीत्। इदमविभक्तं कालस्वरूपं नोऽस्मदर्थं विवासयतं विभज्य स्थापयतम्। आवदावाभ्यामस्मदीयग्रहादित्यर्थः।

ननूपांश्वन्तर्यामावपि मैत्रावरुणात्पूर्वमेव गृहीतावित्याशङ्क्याऽऽह – ‘प्राणापानौ ह्येतौ यदुपाश्वन्तर्यामौ’ (सं. का. ६ प्र. ४ अ. ८) इति।

प्राणापानयोः सतोः पश्चादितरेन्द्रियस्थितिरिति तयोः पूर्वभावित्वमविवादम्। इतरेषु तु ग्रहेष्वैन्द्रवायव एक एव मैत्रावरुणात्पूर्वः। वरं लब्ध्वाऽहोरात्रयोर्विभागमजनतामित्याह – ‘मित्रोऽहरजनयद्वरुणो रात्रिं ततो वा इदं व्यौच्छद्यन्मैत्रावरुणो गृह्यते व्युष्ट्यै’ (सं. का. ६ प्र. ४ अ. ८) इति।

सूर्योदयमारभ्य तदस्तमयपर्यन्तं कालोऽहरित्येवं मित्रः कल्पयामास। तदूर्ध्वं पुनः सूर्योदयपर्यन्ता रात्रिरित्येतद्वरुणस्य कल्पनम्। तत आरभ्योभयकालस्वरूपं व्यौच्छद्विभक्तमासीत्। व्युष्ट्या अहोरात्रविभागाय।

अथ च्छन्दः – अयं वामित्येषा गायत्री॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके पञ्चमोऽनुवाकः ॥५॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 मैत्रावरुणं गृह्णाति - अयं वामिति गायत्र्या त्रिपदया ॥ हे मित्रावरुणा मित्रावरुणौ, ऋतावृव्धा ऋतावृधौ, ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारौ । उभयत्र 'सुपां सुछुक्' इत्याकारः । 'वृधेः क्विप्' 'अन्येषामपि दृश्यते' इत्युपपदस्य दीर्घः । अयं सोमः वां युवयोः अर्थाय सुतः अभिषुतः । इदिति हेतौ । यस्मादेवं तस्मादिहास्मिन्कर्मणि मम हवमाह्वानं श्रुतं श्रुणुतम् । श्रुत्वा चागत्य सोमं पिबतमित्यर्थः । 'भावेनुपसर्गस्य' इति ह्वयतेरप्सम्प्रसारणं च । शृणोतेर्लेटि 'बहुलं छन्दसि' इति शपो लुक् ॥

इमामनुद्रुत्य उपयामगृहीतोसि मित्रावरुणाभ्यां त्वेति गृह्णाति ॥ 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥

2 एष ते योनिर् ऋतायुभ्यां त्वेतिसादयति ॥ ऋतं सत्यं यज्ञं वा आत्मनो यजमानानां वा इच्छतीति ऋतायुः । ' छन्दसि परेच्छायामापै' इति क्यच्, 'न च्छन्दस्यपुत्रस्य' इतीत्वप्रति षेधः, 'क्याच्छन्दसि' इत्युप्रत्ययः । 'मित्रं देवा अब्रुवन्' इत्यादि ब्राह्मणम् । 'सोब्रवीद्वरं वृणै मह्यं चैवैष मित्राय च' इत्यादि च । 'तावब्रूतां वरं वृणावहा एक एवावत्पूर्वो ग्रहो गृह्यातै' इत्यादि च ॥
इति चतुर्थे पञ्चमः ॥