अंभ॑स्य पा॒रे भुव॑नस्य॒ मद्ध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो मही॑यान् । शु॒क्रेण॒ ज्योतीꣳ॑षि समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः ॥ यस्मि॑न्नि॒दꣳ सञ्च॒ विचैति॒ सर्वं॒ ॅयस्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुः । तदे॒व भू॒॒तं तदु॒ भव्य॑मा इ॒दं तद॒क्षरे॑ पर॒मे व्यो॑मन्न् ॥ येना॑ वृ॒तं खञ्च॒ दिवं॑ म॒हीञ्च॒ येना॑दि॒त्य-स्तप॑ति॒ तेज॑सा॒ भ्राज॑सा च । यम॒न्तः स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒ यद॒क्षरे॑ पर॒मे प्र॒जाः ॥ यतः॑ प्रसू॒ता ज॒गतः॑ प्रसूती॒ तोये॑न जी॒वान् व्यच॑सर्ज॒ (व्यस॑सर्ज॒) भूम्यां᳚ । यदोष॑धीभिः पु॒रुषा᳚न् प॒शूꣳश्च॒ विवे॑श भू॒तानि॑ चराच॒राणि॑ ॥ अतः॑ परं॒ नान्य॒-दणी॑यसहि॒ परा᳚त् परं॒ ॅयन् मह॑तो म॒हान्तं᳚ । यदे॑क-म॒व्यक्त॒-मन॑न्तरूपं॒ ॅविश्वं॑ पुरा॒णं तम॑सः॒ पर॑स्तात् ।
कोर्वै (Index)
(पुर॑स्ता॒द् - यशो॒ - गुहा॑सु॒ - मम॑ - चक्रतु॒ण्डाय॑ धीमहि - तीक्षदꣳ॒॒ष्ठ्राय॑ धीमहि॒ - परि॑ - प्र॒तिष्ठि॑तं - देभुर् - यच्छतु - दधातना॒- द्भ्यो᳚ - ऽर्ण॒वः - सुवो॒ - राजैकं॑ च)