TA 6.39

1 पञ्चाशत्

T.A.6.39.1
ब्रह्म॑ मे॒धया᳚ । मधु॑ मे॒धया᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ ॥ अ॒द्या नो॑ देव सवितः प्र॒जाव॑थ्सावीः॒ सौभ॑गं । परा॑ दुः॒ष्वप्नि॑यꣳ सुव । विश्वा॑नि देव सवितर्-दुरि॒तानि॒ परा॑सुव । यद् भ॒द्रं तन्म॒ आसु॑व ॥ मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः । माद्ध्वी᳚र्नः स॒न्त्वोष॑धीः । मधु॒नक्त॑ मु॒तोषसि॒ मधु॑म॒त् पार्थि॑वꣳ॒॒ रजः॑ । मधु॒द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒र्-मधु॑माꣳ अस्तु॒ सूर्यः॑ । माद्ध्वी॒ र्गावो॑ भवन्तु नः ॥ य इ॒मं त्रिसु॑पर्ण॒-मया॑चितं ब्राह्म॒णाय॑ दद्यात् । भ्रू॒ण॒ह॒त्यां ॅवा ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात् प॒क्तिं पुन॑न्ति । ॐ ।