TA 6.14

1 पञ्चाशत्

T.A.6.14.1
आ॒दि॒त्यो वा ए॒ष ए॒तन् म॒ण्डलं॒ तप॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा म॑ण्डलꣳ॒॒ स ऋ॒चां ॅलो॒कोऽथ॒य ए॒ष ए॒तस्मि॑न् म॒ण्डले॒ऽर्चिर् दी॒प्यते॒ तानि॒ सामा॑नि॒ स सा॒म्नां ॅलो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न् म॒ण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ यजूꣳ॑षि॒ स यजु॑षा मण्डलꣳ॒॒ स यजु॑षां ॅलो॒कः सैषा त्र॒य्येव॑ वि॒द्या त॑पति॒ य ए॒षो᳚ऽन्त-रा॑दि॒त्ये हि॑र॒ण्मयः॒ पुरु॑षः ।