निध॑नपतये॒ नमः । निध॑नपतान्तिकाय॒ नमः । ऊर्द्ध्वाय॒ नमः । ऊर्द्ध्वलिङ्गाय॒ नमः । हिरण्याय॒ नमः । हिरण्यलिङ्गाय॒ नमः । सुवर्णाय॒ नमः । सुवर्णलिङ्गाय॒ नमः । दिव्याय॒ नमः । दिव्यलिङ्गाय॒ नमः
TA 6.16
2 पञ्चाशत्
॥
भवाय॒ नमः । भवलिङ्गाय॒ नमः । शर्वाय॒ नमः । शर्वलिङ्गाय॒ नमः । शिवाय॒ नमः । शिवलिङ्गाय॒ नमः । ज्वलाय॒ नमः । ज्वललिङ्गाय॒ नमः । आत्माय॒ नमः । आत्मलिङ्गाय॒ नमः । परमाय॒ नमः । परमलिङ्गाय॒ नमः । एतथ्सोमस्य॑ सूर्य॒स्य॒ सर्वलिङ्गꣳ॑ स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रं ।