भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॒ , भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॒ , सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॒ , भू-र्भुव॒स्सुव॑-श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॒, नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒र् मह॒र्ॐ ।
TA 6.5
1 पञ्चाशत्
॥