ओं᳚ तद् ब्र॒ह्म । ओं᳚ तद् वा॒युः । ओं᳚ तदा॒त्मा । ओं᳚ तथ् स॒त्यं । ओं᳚ तथ् सर्वं᳚ । ओं᳚ तत् पुरो॒र् नमः । अन्तश्चरति॑ भूते॒षु॒ गुहायां ॅवि॑श्व मू॒र्त्तिषु । त्वं ॅयज्ञ्स्त्वं ॅवषट्कारस्त्व-मिद्रस्त्वꣳ रुद्रस्त्वं-ॅविष्णुस्त्वं ब्रह्मत्वं॑ प्रजा॒पतिः । त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒र्ॐ ।
TA 6.68
1 पञ्चाशत्
॥