TA 6.80

1 पञ्चाशत्

T.A.6.80.1
तस्यै॒वं ॅवि॒दुषो॑ य॒ज्ञ्स्या॒त्मा यज॑मानः-श्र॒ध्दापत्नी॒ शरी॑र-मि॒द्ध्ममुरो॒ वेदि॒र्-लोमा॑नि ब॒र॒.हिर्-वे॒दः-शिखा॒ हृद॑यं॒ ॅयूपः॒ काम॒ आज्यं॑ म॒न्युः प॒शु-स्तपो॒ऽग्निर्-दमः॑ शमयि॒ता दक्षि॑णा॒-वाग्घोता᳚ प्रा॒ण उ॑द्ग॒ता चक्षु॑रध्व॒र्युर्-मनो॒ ब्रह्मा॒ श्रोत्र॑म॒ग्नी- ध्याव॒ध्द्रिय॑ते॒ सा दी॒क्षा यदश्र्ना॑ति॒ तध्दवि॒र्-यत्पिब॑ति॒ तद॑स्य सोमपा॒नं ॅयद्रम॑ते॒ तदु॑प॒सदो॒ यथ् सं॒चर॑-त्युप॒विश॑-त्यु॒त्तिष्ठ॑ते च॒ सप्र॑व॒र्ग्यो॑ यन्मुखं॒ तदा॑हव॒नीयो॒ या व्याहृ॑ति-राहु॒तिर्-यद॑स्य वि॒ज्ञानं॒ तज्जु॒होति॒ यथ्सा॒यं प्रा॒तर॑त्ति॒ तथ्स॒मिधं॒ ॅयत्प्रा॒तर् म॒द्ध्यन्दि॑नꣳ सा॒यं च॒ तानि॒ सव॑नानि॒ ये अ॑होरा॒त्रे ते द॑र्.शपूर्णमा॒सौ ये᳚ऽर्द्धमा॒साश्च॒ मासा᳚श्च॒ ते चा॑तुर्मा॒स्यानि॒ य ऋ॒तव॒स्ते प॑शुब॒न्धा ये सं॑ॅवथ्स॒राश्च॑ परिवथ्स॒राश्च॒ तेऽह॑र्ग॒णाः स॑र्व वेद॒सं ॅवा ए॒तथ् स॒त्रं ॅयन्मर॑णं॒ तद॑व॒भृथ॑ ए॒तद्वै ज॑रामर्य-मग्निहो॒त्रꣳ स॒त्रं ॅय ए॒वं ॅवि॒द्वा-नु॑द॒गय॑ने प्र॒मीय॑ते दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वाऽऽदि॒त्यस्य॒ सायु॑ज्यं गच्छ॒त्यथ॒ यो द॑क्षि॒णे प्र॒मीय॑ते पितृ॒णा-मे॒व म॑हि॒मानं॑ ग॒त्वा च॒न्द्रम॑सः॒ सायु॑ज्यꣳ सलो॒कता॑-माप्नोत्ये॒तौ वै सू᳚र्या चन्द्र॒मसौ᳚र्-महि॒मानौ᳚ ब्राह्म॒णो वि॒द्वा-न॒भिज॑यति॒ तस्मा᳚द् ब्र॒ह्मणो॑ महि॒मान॑माप्नोति॒ तस्मा᳚द् ब्र॒ह्मणो॑ महि॒मान॑-मित्युप॒निषत् ।