TA 6.32

1 पञ्चाशत्

T.A.6.32.1
सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्तां । यद्रात्रिया पाप॑मका॒र्॒.षं । मनसा वाचा॑ हस्ता॒भ्यां । पद्भ्या-मुदरे॑ण शि॒श्ना । रात्रि॒-स्तद॑वलु॒पंतु । यत्किञ्च॑ दुरि॒तं मयि॑ । इदमह-माममृ॑त यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ।