TA 6.59

1 पञ्चाशत्

T.A.6.59.1
दे॒वकृ॑त॒स्यैन॑सो-ऽव॒यज॑नमसि॒ स्वाहा᳚ । म॒नु॒ष्य॑कृत॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ । पि॒तृकृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ । आ॒त्मकृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ । अ॒न्यकृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ । अ॒स्मत्कृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ । यद्दि॒वा च॒ नक्तं॒ चैन॑श्चकृ॒म तस्या॑ व॒यज॑नमसि॒ स्वाहा᳚ । यथ् स्व॒पन्त॑श्च॒ जाग्र॑त॒-श्चैन॑श्च-कृ॒म तस्या॑ व॒यज॑नमसि॒ स्वाहा᳚ । यथ् सु॒षुप्त॑श्च॒ जाग्र॑त॒-श्चैन॑श्च-कृ॒म तस्या॑ व॒यज॑नमसि॒ स्वाहा᳚ । यद् वि॒द्वाꣳस॒श्चा वि॑द्वाꣳस॒श्चैन॑श्च-कृ॒म तस्या॑ व॒यज॑नमसि॒ स्वाहा᳚ । एनस एनसो वयजनम॑सि स्वा॒हा ।