ब्रह्म॑ मेतु॒॒ मां । मधु॑ मेतु॒ मां । ब्रह्म॑-मे॒व मधु॑ मेतु॒ मां ॥ यास्ते॑ सोम प्र॒जाव॒थ्सो-ऽभि॒सो अ॒हं । दुःष्व॑प्न॒हन् दु॑रुष्वह । यास्ते॑ सोम प्रा॒णाꣳस्तां जु॑होमि ॥ त्रिसु॑पर्ण॒ मया॑चितं ब्राह्म॒णाय॑ दद्यात् । ब्र॒ह्म॒ह॒त्यां ॅवा ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात् प॒क्तिं पुन॑न्ति । ॐ ।
TA 6.38
1 पञ्चाशत्
॥