TA 6.36

1 पञ्चाशत्

T.A.6.36.1
उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒ मूर्द्ध॑नि । ब्रा॒ह्मणे᳚भ्यो-ऽभ्य॑नुज्ञा॒ता॒ ग॒च्छ दे॑वि य॒थासु॑खं ॥ स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने᳚ द्विजा॒ता । आयुः पृथिव्यां-द्रविणं ब्र॑ह्मव॒र्च॒सं॒ मह्यं दत्वा प्रजातुं ब्र॑ह्मलो॒कं ।