TA 6.15

1 पञ्चाशत्

T.A.6.15.1
आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं॒ ॅयश॒-श्चक्षुः॒ श्रोत्र॑मा॒त्मा मनो॑ म॒न्युर्-मनु॑र्-मृ॒त्युः स॒त्यो मि॒त्रो वा॒युरा॑का॒शः प्रा॒णो लो॑कपा॒लः कः किं कं तथ् स॒त्यमन्न॑-म॒मृता॑ जी॒वो विश्वः॑ कत॒मः स्व॑य॒भुं ब्रह्मै॒ तदमृ॑त ए॒ष पुरु॑ष ए॒ष भू॒ताना॒-मधि॑पति॒र्-ब्रह्म॑णः॒ सायु॑ज्यꣳ सलो॒कता॑-माप्नो-त्ये॒तासा॑मे॒व दे॒वता॑नाꣳ॒॒ सायु॑ज्यꣳ सा॒र्.ष्टिताꣳ॑ समान लो॒कता॑-माप्नोति॒ य ए॒वं ॅवेदे᳚त्युप॒निषत् ।