TA 6.70

1 पञ्चाशत्

T.A.6.70.1
श्र॒द्धायां᳚ प्रा॒णे निवि॑श्या॒ऽमृतꣳ॑ हु॒तं । प्रा॒ण मन्ने॑नाप्यायस्व । श्र॒द्धाया॑मपा॒ने निवि॑श्या॒ऽमृतꣳ॑ हु॒तं । अ॒पा॒न मन्ने॑नाप्यायस्व । श्र॒द्धायां᳚ ॅव्या॒ने निवि॑श्या॒ऽमृतꣳ॑ हु॒तं । व्या॒न मन्ने॑नाप्यायस्व । श्र॒द्धाया॑-मुदा॒ने निवि॑श्या॒ऽमृतꣳ॑ हु॒तं । उ॒दा॒न मन्ने॑नाप्यायस्व । श्र॒द्धायाꣳ॑ समा॒ने निवि॑श्या॒ऽमृतꣳ॑ हु॒तं । स॒मान॒ मन्ने॑नाप्यायस्व ।