TA 6.40

1 पञ्चाशत्

T.A.6.40.1
ब्रह्म॑ मे॒धवा᳚ । मधु॑ मे॒धवा᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धवा᳚ ॥ ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒ना-मृषि॒र् विप्रा॑णां महि॒षो मृ॒गाणां᳚ । श्ये॒नो गृद्ध्रा॑णाꣳ॒॒ स्वधि॑ति॒र्-वना॑नाꣳ॒॒ सोमः॑ प॒वित्र॒॒-मत्ये॑ति॒ रेभन्न्॑ ॥ हꣳ॒॒सः शु॑चि॒षद् वसु॑रन्तरिक्ष॒ सद्धोता॑- वेदि॒ष-दति॑थिर्-दुरोण॒सत् । नृ॒षद्व॑र॒-सदृ॑त॒-सद् व्यो॑म॒-सद॒ब्जा- गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥ ऋ॒चेत्वा॑ रु॒चेत्वा॒ समिथ् स्र॑वन्ति स॒रितो॒ न धेना᳚: । अ॒न्तर्. हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि । हि॒र॒ण्ययो॑ वेत॒सो मद्ध्य॑ आसां । तस्मि᳚न्थ् सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः । तस्या॑ सते॒ हर॑यः स॒प्ततीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारां᳚ । य इ॒दं त्रिसु॑पर्ण॒-मया॑चितं ब्राह्म॒णाय॑ दद्यात् । वी॒र॒ह॒त्यां ॅवा ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात् पं॒क्तिं पुन॑न्ति । ॐ ।