TA 6.13

2 पञ्चाशत्

T.A.6.13.1
स॒ह॒स्र॒शीर्.षं॑ दे॒वं॒ ॅवि॒श्वाक्षं॑ ॅवि॒श्व शं॑ भुवं । विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प॒दं ॥ वि॒श्वतः॒ पर॑मान्नि॒त्यं॒ ॅवि॒श्वं ना॑राय॒णꣳ ह॑रिं । विश्व॑मे॒वेदं पुरु॑ष॒-स्तद् विश्व॒मुप॑जीवति ॥ पतिं॒ ॅविश्व॑स्या॒त्मेश्व॑रꣳ॒॒ शाश्व॑तꣳ शि॒वम॑च्युतं । ना॒राय॒णं म॑हाज्ञे॒यं॒ ॅवि॒श्वात्मा॑नं प॒राय॑णं ॥ ना॒राय॒ण प॑रो ज्यो॒ति॒रा॒त्मा ना॑रय॒णः प॑रः । ना॒राय॒ण प॑रं ब्र॒ह्म॒ त॒त्त्वं ना॑राय॒णः प॑रः । ना॒राय॒ण प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः ॥ यच्च॑ कि॒ञ्चिज्-ज॑गथ् स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा
कोर्वै (Index)
(अपि॑ वा॒ - सन्त॑ता॒ षट् च॑)
T.A.6.13.2
अन्त॑र् ब॒हिश्च॑ तथ् स॒र्वं॒ ॅव्या॒प्य ना॑राय॒णः स्थि॑तः ॥ अन॑न्त॒ मव्य॑यं क॒विꣳ स॑मु॒द्रेऽन्तं॑ ॅवि॒श्व श॑भुंवं । प॒द्म॒को॒श-प्र॑तीका॒शꣳ॒॒ हृ॒दयं॑ चाप्य॒धोमु॑खं ॥ अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति । ज्वा॒ल॒मा॒ला कु॑लं भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् ॥ सन्त॑तꣳ शि॒लाभि॑स्तु॒ लंब॑त्या कोश॒सन्नि॑भं । तस्यान्ते॑ सुषि॒रꣳ सू॒क्ष्मं तस्मि᳚न्थ् स॒र्वं प्रति॑ष्ठितं ॥ तस्य॒ मद्ध्ये॑ म॒हान॑ग्निर् वि॒श्वार्चि॑र् वि॒श्वतो॑ मुखः । सोऽग्र॑भु॒ग् विभ॑जन् ति॒ष्ठ॒न्-नाहा॑र-मज॒रः क॒विः । ति॒र्य॒गू॒र्ध्व म॑धः शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता ( ) ॥ स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒ मस्त॑कः । तस्य॒ मद्ध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्द्ध्वा व्य॒वस्थि॑तः ॥ नी॒लतो॑ यद॑ मद्ध्य॒स्था॒द् वि॒द्युल्ले॑खेव॒ भास्व॑रा । नी॒वार॒ शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा ॥ तस्याः᳚ शिखा॒या म॑द्ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः । स ब्रह्म॒ स शिवः॒ स हरिः॒ सेन्द्रः॒ सोऽक्ष॑रः पर॒मः स्व॒राट् ।
कोर्वै (Index)
(अपि॑ वा॒ - सन्त॑ता॒ षट् च॑)