स॒ह॒स्र॒शीर्.षं॑ दे॒वं॒ ॅवि॒श्वाक्षं॑ ॅवि॒श्व शं॑ भुवं । विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प॒दं ॥ वि॒श्वतः॒ पर॑मान्नि॒त्यं॒ ॅवि॒श्वं ना॑राय॒णꣳ ह॑रिं । विश्व॑मे॒वेदं पुरु॑ष॒-स्तद् विश्व॒मुप॑जीवति ॥ पतिं॒ ॅविश्व॑स्या॒त्मेश्व॑रꣳ॒॒ शाश्व॑तꣳ शि॒वम॑च्युतं । ना॒राय॒णं म॑हाज्ञे॒यं॒ ॅवि॒श्वात्मा॑नं प॒राय॑णं ॥ ना॒राय॒ण प॑रो ज्यो॒ति॒रा॒त्मा ना॑रय॒णः प॑रः । ना॒राय॒ण प॑रं ब्र॒ह्म॒ त॒त्त्वं ना॑राय॒णः प॑रः । ना॒राय॒ण प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः ॥ यच्च॑ कि॒ञ्चिज्-ज॑गथ् स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा
कोर्वै (Index)
(अपि॑ वा॒ - सन्त॑ता॒ षट् च॑)