TA 6.31

1 पञ्चाशत्

T.A.6.31.1
अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्तां । यदह्ना पाप॑मका॒र्॒.षं । मनसा वाचा॑ हस्ता॒भ्यां । पद्भ्या-मुदरे॑ण शि॒श्ना । अह॒स्तद॑वलु॒पंतु । यत्किञ्च॑ दुरि॒तं मयि॑ । इदमह-माममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।