TA 6.77

1 पञ्चाशत्

T.A.6.77.1
शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व सुभू॒तेन॑ मे॒ सन्ति॑ष्ठस्व ब्रह्मवर्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व य॒ज्ञ्स्यर्द्धि॒ मनु॒ सन्ति॑ष्ठ॒ स्वोप॑ ते यज्ञ्॒ नम॒ उप॑ ते॒ नम॒ उप॑ ते॒ नम॑: ।