अ॒ग्नये॒ स्वाहा᳚ । विश्वे᳚भ्यो दे॒वेभ्यः॒ स्वाहा᳚ । ध्रु॒वाय॑ भू॒माय॒ स्वाहा᳚ । ध्रु॒व॒क्षित॑ये॒ स्वाहा᳚ । अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा᳚ । अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚ ॥ धर्मा॑य॒ स्वाहा᳚ । अध॑र्माय॒ स्वाहा᳚ । अ॒द्भ्यः स्वाहा᳚ । ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ स्वाहा᳚
कोर्वै (Index)
(ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ स्वाहा॒ - ऽन्तरि॑क्षाय॒ स्वाहा॒ - नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑ - वि॒तुद॑स्य॒ प्रेष्या॒ एकं॑ च)