TA 6.42

1 पञ्चाशत्

T.A.6.42.1
मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती । मे॒धां मे॑ अ॒श्विना॑-वु॒भावाध॑त्तां॒ पुष्क॑रस्रजा ॥ अ॒फ्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मनः॑ । दैवीं᳚ मे॒धा सर॑स्वती॒ सा मां᳚ मे॒धा सु॒रभि॑र् जुषताꣳ॒॒ स्वाहा᳚ ।