TA 6.27

1 पञ्चाशत्

T.A.6.27.1
(ठिस् ए꣡पन्सिऒन् इस् अप्पॆअरिन्ग् इन् ट्.श्.1.2.14.1 fऒर् कृ॒णु॒ष्व पाज॒ इति॒ पञ्च॑ । ) कृ॒णु॒ष्व पाजः॒ प्रसि॑ति॒न्न पृ॒थ्वीं ॅया॒हि राजे॒ वा॑मवाꣳ॒॒ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑ऽसि॒ विद्ध्य॑ र॒क्ष स॒स्तपि॑ष्ठैः ॥ 1 तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपूꣳ॑ष्यग्ने जु॒ह्वा॑ पत॒गांन स॑न्दितो॒ विसृ॑ज॒ विष्व॑ गु॒ल्काः ॥ 2 प्रति॒स्पशो॒ विसृ॑ज॒ तूर्णि॑ तमो॒ भवा॑ पा॒युर् वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घशꣳ॑सो॒ यो अन्त्य॑ग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्.षीत् ॥ 3 उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒न्य॑ मित्राꣳ॑ ओषतात् तिग्महेते । यो नो॒ अरा॑तिꣳ समिधान च॒क्रे नी॒चातं ध॑क्ष्यत॒ सन्न शुष्कं᳚ ॥ 4 ऊ॒र्द्ध्वो भ॑व॒ प्रति॑विद्॒ध्या-ध्य॒स्मदा॒ विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने । अव॑स्थि॒रा त॑नुहि यातु॒ जूनां᳚ जा॒मिमजा॑मिं॒ प्रमृ॑णीहि॒ शत्रून्॑ ॥ 5 कृ॒णु॒ष्व पाज॒ इति॒ पञ्च॑ ।