तिलाः कृष्णा-स्ति॑लाः श्वे॒ता॒-स्तिलाः सौम्या व॑शानु॒गाः । तिलाः पुनन्तु॑ मे पा॒पं॒ ॅयत्किञ्चिद् दुरितं म॑यि स्वा॒हा ॥ चोर॒स्यान्नं न॑वश्रा॒द्धं॒ ब्र॒ह्म॒हा गु॑रुत॒ल्पगः । गोस्तेयꣳ स॑रापा॒नं॒ भ्रूणहत्या तिला शान्तिꣳ शमय॑न्तु स्वा॒हा ॥ श्रीश्च लक्ष्मीश्च पुष्टीश्च कीर्त्तिं॑ चा नृ॒ण्यतां । ब्रह्मण्यं ब॑हुपु॒त्रतां । श्रद्धामेधे प्रज्ञातु जातवेदः संददा॑तु स्वा॒हा ।
TA 6.64
1 पञ्चाशत्
॥