अ॒णो-रणी॑यान् मह॒तो मही॑या-ना॒त्मा गुहा॑यां॒ निहि॑तोऽस्य ज॒न्तोः । तम॑क्रतुं पश्यति वीतशो॒को धा॒तुः प्र॒सादा᳚न्-महि॒मान॑मीशं ॥ स॒प्त प्रा॒णाः प्र॒भव॑न्ति॒ तस्मा᳚थ् स॒प्तार्चिषः॑ स॒मिधः॑ स॒प्त जि॒ह्वाः । स॒प्त इ॒मे लो॒का येषु॒ चर॑न्ति प्रा॒णा गु॒हाश॑या॒-न्निहि॑ताः स॒प्त स॑प्त ॥ अतः॑ समु॒द्रा गि॒रय॑श्च॒ सर्वे॒ऽस्माथ् स्यन्द॑न्ते॒ सिन्ध॑वः॒ सर्व॑रूपाः । अत॑श्च॒ विश्वा॒ ओष॑धयो॒ रसा᳚च्च॒ येनै॑ष भू॒त-स्ति॑ष्ठत्यन्तरा॒त्मा ॥ ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒ना-मृषि॒र्-विप्रा॑णां महि॒षो मृ॒गाणां᳚ । श्ये॒नो गृध्रा॑णाꣳ॒॒ स्वधि॑ति॒र्-वना॑नाꣳ॒॒ सोमः॑ प॒वित्र॒ मत्ये॑ति॒ रेभन्न्॑ ॥ अ॒जा मेकां॒ ॅलोहि॑त-शुक्ल-कृ॒ष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्तीꣳ॒॒ सरू॑पां । अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॒ जहा᳚त्येनां भु॒क्त-भो॑गा॒मजो᳚ऽन्यः ।
कोर्वै (Index)
(अजो᳚ऽन्य॒ - आवि॑वेश॒ - सर्वे॑ च॒त्वारि॑ च)