TA 6.11

1 पञ्चाशत्

T.A.6.11.1
यथा॑ वृ॒क्षस्य॑ स॒पुंष्पि॑तस्य दू॒राद् ग॒न्धो वा᳚त्ये॒वं पुण्य॑स्य क॒र्मणो॑ दू॒राद् ग॒न्धो वा॑ति॒ यथा॑ऽसिधा॒रां क॒र्त्तेऽव॑हिता-मव॒क्रामे॒ यद्युवे॒ युवे॒ हवा॑ वि॒ह्वयि॑ष्यामि क॒र्त्तं प॑तिष्या॒मीत्ये॒व-म॒मृता॑-दा॒त्मानं॑ जु॒गुफ्से᳚त् ।