TA 6.35

1 पञ्चाशत्

T.A.6.35.1
ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑॑ऽसि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु-रभिभूर्ॐ-गायत्री-मावा॑हया॒मि॒ सावित्री-मावा॑हया॒मि॒ सरस्वती-मावा॑हया॒मि॒ छन्दर्.षी-नावा॑हया॒मि॒ श्रिय-मावा॑हया॒मि॒ गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्.हृदयꣳ रुद्रः शिखा पृथिवीयोनिः प्राणापान-व्यानोदान-समाना सप्राणा श्वेतवर्णा साङ्ख्यायन-सगोत्रा गायत्री चतुर्विꣳशत्यक्षरा त्रिपदा॑ षट्कु॒क्षिः॒ पञ्च शीर्.षोपनयने वि॑नियो॒ग॒, ॐ भूः । ॐ भुवः । ओꣳ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओꣳ स॒त्यं । ॐ तथ् स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् । ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒र्ॐ ।