TA 6.72

1 पञ्चाशत्

T.A.6.72.1
वाङ्म॑ आ॒सन्न् । न॒सोः प्रा॒णः । अ॒क्ष्यो-श्चक्षुः॑ । कर्ण॑योः॒ श्रोत्रं᳚ । बा॒हु॒वोर् बलं᳚ । ऊ॒रु॒वो रोजः॑ । अरि॑ष्टा॒ विश्वा॒न्यङ्गा॑नि त॒नूः । त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ।