आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ संमि॑तं । गा॒य॒त्रीं᳚ छन्द॑सां मा॒तेदं ब्र॑ह्म जु॒षस्व॑ मे । यदह्ना᳚त् कुरु॑ते पा॒पं॒ तदह्ना᳚त् प्रति॒मुच्य॑ते । यद् रात्रिया᳚त् कुरु॑ते पा॒पं॒ तद् रात्रिया᳚त् प्रति॒मुच्य॑ते । सर्व॑ व॒र्णे म॑हादे॒वि॒ स॒न्ध्या वि॑द्ये स॒रस्व॑ति ।
TA 6.34
1 पञ्चाशत्
॥