TA 6.2

1 पञ्चाशत्

T.A.6.2.1
जा॒तवे॑दसे सुनवाम॒ सोम॑-मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्.ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥ ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं ॅवै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टां᳚ । दु॒र्गां दे॒वीꣳ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑ ॥ अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्थ् स्व॒स्ति-भि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शम्ॅयोः ॥ विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑पर्.षि । अग्ने॑ अत्रि॒वन् मन॑सा गृणा॒नो᳚ऽस्माकं॑ बोद्ध्यवि॒ता त॒नूनां᳚ ॥ पृ॒त॒ना॒जितꣳ॒॒ सह॑मान-मु॒ग्रम॒ग्निꣳ हु॑वेम पर॒माथ् स॒धस्था᳚त् । स नः॑ पर्.ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑ दुरि॒ताऽत्य॒ग्निः ( ) ॥ प्र॒त्नोषि॑-क॒मीड्यो॑ अद्ध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सथ्सि॑ । स्वाञ्चा᳚ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्य॑ञ्च॒ सौभ॑ग॒माय॑जस्व ॥ गोभि॒र्-जुष्ट॑म॒युजो॒ निषि॑क्तं॒ तवे᳚न्द्र विष्णो॒-रनु॒सञ्च॑रेम । नाक॑स्य पृ॒ष्ठम॒भि स॒म्ॅवसा॑नो॒ वैष्ण॑वीं ॅलो॒क इ॒ह मा॑दयन्तां ।
कोर्वै (Index)
(दु॒रि॒ताऽत्य॒ग्निश्च॒त्वारि॑ च)