स॒ह॒स्र॒वृदि॑यं भू॒मिः । प॒रं ॅव्यो॑म स॒हस्र॑वृत् । अ॒श्विना॑ भुज्यू॑ नास॒त्या । वि॒श्वस्य॑ जग॒तस्प॑ती ॥ जाया भूमिः प॑तिर्व्यो॒म । मि॒थुन॑न्ता अ॒तुर्य॑थुः । पुत्रो बृहस्प॑ती रु॒द्रः । स॒रमा॑ इति॑ स्त्रीपु॒मं ॥ शु॒क्रं ॅवा॑म॒न्यद्य॑ज॒तं ॅवा॑म॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑व स्थः
कोर्वै (Index)
(स्थो - ऽपो॑दकाभिर् - वशी - दधाथे - अ॒ग्नि - स्तयो॑ रे॒तौ व॒थ्सौ - भ॒वति च॒त्वारि॑ च)