TA 1.25

3 पञ्चाशत्

T.A.1.25.1
जा॒नु॒द॒घ्नी-मु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पां पू॑रयति । अ॒पाꣳ स॑र्व॒त्वाय॑ । पु॒ष्क॒र॒प॒र्णꣳ रु॒क्मं पुरु॑ष॒-मित्युप॑दधाति । तपो॒ वै पु॑ष्करप॒र्णं । स॒त्यꣳ रु॒क्मः । अ॒मृतं॒ पुरु॑षः । ए॒ताव॒द्वा वा᳚स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑
कोर्वै (Index)
(अस्ति॑ - पृणा॒ - न्तरि॑क्ष॒म् पादः॒ षट्च॑)
T.A.1.25.2
तदव॑रुन्धे ॥ कू॒र्ममुप॑दधाति । अ॒पामे॒व मेध॒मव॑रुन्धे । अथो᳚ स्व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ आप॑मापाम॒पः सर्वाः᳚ । अ॒स्माद॒स्मा दि॒तोऽमुतः॑ । अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह स॑ञ्चस्क॒रर्द्धि॑या॒ इति॑ । “वा॒य्वश्वा॑ रश्मि॒पत॑यः{11}” ॥ लो॒कं पृ॑णच्छि॒द्रं पृ॑ण
कोर्वै (Index)
(अस्ति॑ - पृणा॒ - न्तरि॑क्ष॒म् पादः॒ षट्च॑)
T.A.1.25.3
यास्ति॒स्रः प॑रम॒जाः ॥ “इ॒न्द्र॒घो॒षा वो॒ वसु॑भि{12}” “ रे॒वा ह्ये॒वे{13}” ति॑ ॥ पञ्च॒ चित॑य॒ उप॑दधाति । पाङ्क्त॒ऽग्निः । यावा॑ने॒वाग्निः । तञ्चि॑नुते ॥ लो॒कं पृ॑णया द्वि॒तीया॒-मुप॑दधाति । पञ्च॑पदा॒ वै वि॒राट् । तस्या॒ वा इ॒यं पादः॑ । अ॒न्तरि॑क्षं॒ पादः॑ ( ) । द्यौः पादः॑ । दिशः॒ पादः॑ । प॒रोर॑जाः॒ पादः॑ ॥ वि॒राज्ये॒व प्रति॑तिष्ठति । य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं ॅवेद॑ ।
कोर्वै (Index)
(अस्ति॑ - पृणा॒ - न्तरि॑क्ष॒म् पादः॒ षट्च॑)