TA 1.15

1 पञ्चाशत्

T.A.1.15.1
अथादित्यस्याष्ट पु॑रुष॒स्य ॥ वसूना मादित्यानाꣳ स्थाने स्वतेज॑सा भा॒नि ॥ रुद्राणा-मादित्यानाꣳ स्थाने स्वतेज॑सा भा॒नि ॥ आदित्याना-मादित्यानाꣳ स्थाने स्वतेज॑सा भा॒नि ॥ सताꣳ॑सत्या॒नां । आदित्यानाꣳ स्थाने स्वतेज॑सा भा॒नि ॥ अभिधून्वता॑-मभि॒घ्नतां । वातव॑तां म॒रुतां । आदित्यानाꣳ स्थाने स्वतेज॑सा भा॒नि ॥ ऋभूणा-मादित्यानाꣳ स्थाने स्वतेज॑सा भा॒नि ( ) ॥ विश्वेषां᳚ देवा॒नां । आदित्यानाꣳ स्थाने स्वतेज॑सा भा॒नि ॥ सम्ॅवथ्सर॑स्य स॒वितुः । आदित्यस्य स्थाने स्वतेज॑सा भा॒नि ॥ ओउम् भूर्भुव॒स्स्वः॑ । रश्मयो वो मिथुनं मा नो मिथु॑नꣳ री॒ढ्वं ।
कोर्वै (Index)
(ऋभूणामादित्यानाꣳ स्थाने स्वतेज॑सा भा॒नि षट्च॑)