TA 1.23

9 पञ्चाशत्

T.A.1.23.1
आपो॒ वा इ॒दमा॑सन्थ् सलि॒लमे॒व । स प्र॒जाप॑ति॒रेकः॑ पुष्करप॒र्णे सम॑भवत् । तस्यान्त॒र् मन॑सि कामः॒ सम॑वर्तत । इ॒दꣳ सृ॑जेय॒मिति॑ । तस्मा॒द्यत् पुरु॑षो॒ मन॑साऽभि॒गच्छ॑ति । तद्वा॒चा व॑दति । तत्कर्म॑णा करोति । तदे॒षा ऽभ्यनू᳚क्ता ॥ काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं ॅयदासी᳚त्
कोर्वै (Index)
(आसी॑ - दतिष्ठन् - नभू॒ - दपो॒ - वायो॒ इति - सेयं दिग॒ - भ्यनू᳚क्ता॒ - ऽभ्यनू᳚क्ता॒ -+ऽष्टौ च॑)
T.A.1.23.2
स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्न् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षेति॑ ॥ उपै॑न॒न्तदुप॑नमति । यत् का॑मो॒ भव॑ति । य ए॒वं ॅवेद॑ ॥ स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । शरी॑रमधूनुत । तस्य॒ यन् माꣳ॒॒समासी᳚त् । ततो॑ऽरु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन्न्
कोर्वै (Index)
(आसी॑ - दतिष्ठन् - नभू॒ - दपो॒ - वायो॒ इति - सेयं दिग॒ - भ्यनू᳚क्ता॒ - ऽभ्यनू᳚क्ता॒ -+ऽष्टौ च॑)
T.A.1.23.3
ये नखाः᳚ । ते वै॑खान॒साः । ये वालाः᳚ । ते वा॑लखि॒ल्याः । यो रसः॑ । सो॑ऽपां ॥ अ॒न्त॒र॒तः कू॒र्मं भू॒तꣳ सर्प॑न्तं । तम॑ब्रवीत् । मम॒ वै त्वङ्-माꣳ॒॒सा । सम॑भूत्
कोर्वै (Index)
(आसी॑ - दतिष्ठन् - नभू॒ - दपो॒ - वायो॒ इति - सेयं दिग॒ - भ्यनू᳚क्ता॒ - ऽभ्यनू᳚क्ता॒ -+ऽष्टौ च॑)
T.A.1.23.4
नेत्य॑ब्रवीत् । पूर्व॑मे॒वाह-मि॒हास॒मिति॑ । तत्पुरु॑षस्य पुरुष॒त्वं । स स॒हस्र॑शीर्.षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । भू॒त्वोद॑तिष्ठत् । तम॑ब्रवीत् । त्वं ॅवै पूर्वꣳ॑ सम॑भूः । त्वमि॒दं पूर्वः॑ कुरु॒ष्वेति॑ ॥ स इ॒त आ॒दायापः॑
कोर्वै (Index)
(आसी॑ - दतिष्ठन् - नभू॒ - दपो॒ - वायो॒ इति - सेयं दिग॒ - भ्यनू᳚क्ता॒ - ऽभ्यनू᳚क्ता॒ -+ऽष्टौ च॑)
T.A.1.23.5
अ॒ञ्ज॒लिना॑ पु॒रस्ता॑-दु॒पाद॑धात् । ए॒वा ह्ये॒वेति॑ । तत॑ आदि॒त्य उद॑तिष्ठत् । सा प्राची॒ दिक् ॥ अथा॑रु॒णः के॒तुर्-द॑क्षिण॒त उ॒पाद॑धात् । ए॒वा ह्यग्न॒ इति॑ । ततो॒ वा अ॒ग्निरुद॑तिष्ठत् । सा द॑क्षि॒णा दिक् । अथा॑रु॒णः के॒तुः प॒श्चादु॒पाद॑धात् । ए॒वा हि वायो॒ इति॑
कोर्वै (Index)
(आसी॑ - दतिष्ठन् - नभू॒ - दपो॒ - वायो॒ इति - सेयं दिग॒ - भ्यनू᳚क्ता॒ - ऽभ्यनू᳚क्ता॒ -+ऽष्टौ च॑)
T.A.1.23.6
ततो॑ वा॒युरुद॑तिष्ठत् । सा प्र॒तीची॒ दिक् । अथा॑रु॒णः के॒तु-रु॑त्तर॒त उ॒पाद॑धात् । ए॒वा हीन्द्रेति॑ । ततो॒ वा इन्द्र॒ उद॑तिष्ठत् । सोदी॑ची॒ दिक् । अथा॑रु॒णः के॒तुर्-मद्ध्य॑ उ॒पाद॑धात् । ए॒वा हि पूष॒न्निति॑ । ततो॒ वै पू॒षोद॑तिष्ठत् । सेयन्दिक्
कोर्वै (Index)
(आसी॑ - दतिष्ठन् - नभू॒ - दपो॒ - वायो॒ इति - सेयं दिग॒ - भ्यनू᳚क्ता॒ - ऽभ्यनू᳚क्ता॒ -+ऽष्टौ च॑)
T.A.1.23.7
अथा॑रु॒णः के॒तुरु॒परि॑ष्टा-दु॒पाद॑धात् । ए॒वा हि देवा॒ इति॑ । ततो॑ देव मनु॒ष्याः पि॒तरः॑ । ग॒न्ध॒र्वा॒-फ्स॒रस॒ श्चोद॑-तिष्ठन्न् । सोर्द्ध्वा दिक् ॥ या वि॒प्रुषो॑ वि॒परा॑पतन्न् । ताभ्योऽसु॑रा॒ रक्षाꣳ॑सि पिशा॒चाश्चो-द॑तिष्ठन्न् । तस्मा॒त्ते परा॑भवन्न् । वि॒प्रुड्भ्यो॒ हि ते सम॑भवन्न् ॥ तदे॒षाऽभ्यनू᳚क्ता ।
कोर्वै (Index)
(आसी॑ - दतिष्ठन् - नभू॒ - दपो॒ - वायो॒ इति - सेयं दिग॒ - भ्यनू᳚क्ता॒ - ऽभ्यनू᳚क्ता॒ -+ऽष्टौ च॑)
T.A.1.23.8
आपो॑ ह॒ यद् बृ॑ह॒तीर् गर्भ॒मायन्न्॑ । दक्षं॒ दधा॑ना ज॒नय॑न्तीः स्वय॒म्भुं । तत॑ इ॒मेऽद्ध्य-सृ॑ज्यन्त॒ सर्गाः᳚ । अद्भ्यो॒ वा इ॒दꣳ सम॑भूत् । तस्मा॑दि॒दꣳ सर्वं॒ ब्रह्म॑ स्वय॒भ्विंति॑ ॥ तस्मा॑दि॒दꣳ सर्वꣳ॒॒ शिथि॑ल-मि॒वा ध्रुव॑-मिवाभवत् ॥ प्र॒जाप॑ति॒र् वाव तत् । आ॒त्मना॒ऽऽत्मानं॑ ॅवि॒धाय॑ । तदे॒वानु॒ प्रावि॑शत् ॥ तदे॒षाऽभ्यनू᳚क्ता ( ) ।
कोर्वै (Index)
(आसी॑ - दतिष्ठन् - नभू॒ - दपो॒ - वायो॒ इति - सेयं दिग॒ - भ्यनू᳚क्ता॒ - ऽभ्यनू᳚क्ता॒ -+ऽष्टौ च॑)
T.A.1.23.9
वि॒धाय॑ लो॒कान्. वि॒धाय॑ भू॒तानि॑ । वि॒धाय॒ सर्वाः᳚ प्र॒दिशो॒ दिश॑श्च । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । आ॒त्मना॒ऽऽत्मा-न॑म॒भि-सम्ॅवि॑वे॒शेति॑ ॥ सर्व॑मे॒वेदमा॒प्त्वा । सर्व॑-मव॒रुद्ध्य॑ । तदे॒वानु॒ प्रवि॑शति । य ए॒वं ॅवेद॑ ।
कोर्वै (Index)
(आसी॑ - दतिष्ठन् - नभू॒ - दपो॒ - वायो॒ इति - सेयं दिग॒ - भ्यनू᳚क्ता॒ - ऽभ्यनू᳚क्ता॒ -+ऽष्टौ च॑)