TA 1.7

6 पञ्चाशत्

T.A.1.7.1
आरोगो भ्राजः पटरः॑ पत॒ङ्गः । स्वर्णरो ज्योतिषीमान्॑. विभा॒सः । ते अस्मै सर्वे दिवमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति ॥ कश्य॑पोऽष्ट॒मः । स महामेरुं न॑ जहा॒ति । तस्यै॒षा भव॑ति ॥ यत्ते॒ शिल्पं॑ कश्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑त् पुष्क॒लं चि॒त्रभा॑नु । यस्मि॒न् थ्सूर्या॒ अर्पि॑ताः स॒प्त सा॒कं
कोर्वै (Index)
(सा॒कं - प्ला॒क्षि - स्तप्त्रि॑तपा॒ - नाना॑सूर्याः॒ - सूर्या॒ - +नव॑ च)
T.A.1.7.2
तस्मिन् राजान-मधिविश्रये॑ममि॒ति ॥ ते अस्मै सर्वे कश्यपा-ज्ज्योति॑र् -लभ॒न्ते । तान्थ्सोमः कश्यपादधि॑ निर्द्ध॒मति । भ्रस्ता कर्म कृ॑दिवै॒वं ॥ प्राणो जीवानीन्द्रिय॑ जीवा॒नि । सप्त शीर्.ष॑ण्याः प्रा॒णाः । सूर्या इ॑त्याचा॒र्याः ॥ अपश्यमह मेतान्थ् सप्त सू᳚र्यानि॒ति । पञ्चकर्णो॑ वाथ्स्या॒यनः । सप्तकर्ण॑श्च प्ला॒क्षिः
कोर्वै (Index)
(सा॒कं - प्ला॒क्षि - स्तप्त्रि॑तपा॒ - नाना॑सूर्याः॒ - सूर्या॒ - +नव॑ च)
T.A.1.7.3
आनुश्रविक एव नौ कश्य॑प इ॒ति । उभौ॑ वेद॒यिते । न हि शेकुमिव महामे॑रुं ग॒न्तुं ॥ अपश्यमहमेतथ् सूर्यमण्डलं परिव॑र्तमा॒नं । गा॒र्ग्यः प्रा॑णत्रा॒तः । गच्छन्त म॑हामे॒रुं । एक॑ञ्चाज॒हतं ॥ भ्राजपटर पत॑ङ्गा नि॒हने । तिष्ठन्ना॑तप॒न्ति । तस्मा॑दि॒ह तप्त्रि॑ तपाः
कोर्वै (Index)
(सा॒कं - प्ला॒क्षि - स्तप्त्रि॑तपा॒ - नाना॑सूर्याः॒ - सूर्या॒ - +नव॑ च)
T.A.1.7.4
अ॒मुत्रे॒तरे । तस्मा॑दि॒हा तप्त्रि॑ तपाः ॥ तेषा॑मेषा॒ भव॑ति ॥ स॒प्त सूर्या॒ दिव॒-मनु॒ प्रवि॑ष्टाः । तान॒न्वेति॑ प॒थिभि॑र् दक्षि॒णावान्॑ । ते अस्मै सर्वे घृतमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति ॥ सप्तर्त्विजः सूर्या इ॑त्याचा॒र्याः ॥ तेषा॑मेषा॒ भव॑ति ॥ स॒प्त दिशो॒ नाना॑ सूर्याः
कोर्वै (Index)
(सा॒कं - प्ला॒क्षि - स्तप्त्रि॑तपा॒ - नाना॑सूर्याः॒ - सूर्या॒ - +नव॑ च)
T.A.1.7.5
स॒प्त होता॑र ऋ॒त्विजः॑ । देवा आदित्या॑ ये स॒प्त । तेभिः सोमाभी रक्ष॑ण इ॒ति ॥ तद॑प्याम्ना॒यः । दिग्भ्राज ऋतू᳚न् करो॒ति ॥ एत॑यैवा॒वृता ऽऽसहस्रसूर्यताया इति वै॑शम्पा॒यनः ॥ तस्यै॒षा भव॑ति ॥ यद्द्याव॑ इन्द्र ते श॒तꣳ श॒तं भूमीः᳚ । उ॒त स्युः । न त्वा॑ वज्रिन्थ् स॒हस्रꣳ॒॒ सूर्याः᳚ ( )
कोर्वै (Index)
(सा॒कं - प्ला॒क्षि - स्तप्त्रि॑तपा॒ - नाना॑सूर्याः॒ - सूर्या॒ - +नव॑ च)
T.A.1.7.6
अनु न जातमष्ट रोद॑सी इ॒ति ॥ नाना लिङ्गत्वा-दृतूनां नाना॑ सूर्य॒त्वं ॥ अष्टौ तु व्यवसि॑ता इ॒ति ॥ सूर्यमण्डला-न्यष्टा॑त ऊ॒र्द्ध्वं ॥ तेषा॑मेषा॒ भव॑ति ॥ चि॒त्रं दे॒वाना॒-मुद॑गा॒दनी॑कं । चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒ द्यावा॑ पृथि॒वी अ॒न्तरि॑क्षं । सूर्य आत्मा जगतस्तस्थु॑षश्चे॒ति ।
कोर्वै (Index)
(सा॒कं - प्ला॒क्षि - स्तप्त्रि॑तपा॒ - नाना॑सूर्याः॒ - सूर्या॒ - +नव॑ च)