TA 1.24

4 पञ्चाशत्

T.A.1.24.1
चतु॑ष्टय्य॒ आपो॑ गृह्णाति । च॒त्वारि॒ वा अ॒पाꣳ रू॒पाणि॑ । मेघो॑ वि॒द्युत् । स्त॒न॒यि॒त्नुर्-वृ॒ष्टिः । तान्ये॒वा व॑रुन्धे ॥ आ॒तप॑ति॒ वर्ष्या॑ गृह्णाति । ताः पु॒रस्ता॒-दुप॑दधाति । ए॒ता वै ब्र॑ह्मवर्च॒स्या आपः॑ । मु॒ख॒त ए॒व ब्र॑ह्मवर्च॒स-मव॑रुन्धे । तस्मा᳚न्-मुख॒तो ब्र॑ह्मवर्च॒सित॑रः ।
कोर्वै (Index)
(ब्र॒ह्म॒व॒र्च॒सित॑रो॒ - वह॑न्तीर् गृह्णाति॒ - ता उ॒परि॑ष्टादु॒पाद॑धा - त्यारुणके॒तुको॒ऽष्टौ च॑)
T.A.1.24.2
कूप्या॑ गृह्णाति । ता द॑क्षिण॒त उप॑दधाति । ए॒ता वै ते॑ज॒स्विनी॒रापः॑ । तेज॑ ए॒वास्य॑ दक्षिण॒तो द॑धाति । तस्मा॒द् दक्षि॒णोर्द्ध॑ ऽस्तेज॒स्वित॑रः ॥ स्था॒व॒रा गृ॑ह्णाति । ताः प॒श्चादुप॑दधाति । प्रति॑ष्ठिता॒ वै स्था॑व॒राः । प॒श्चादे॒व प्रति॑तिष्ठति ॥ वह॑न्तीर् गृह्णाति
कोर्वै (Index)
(ब्र॒ह्म॒व॒र्च॒सित॑रो॒ - वह॑न्तीर् गृह्णाति॒ - ता उ॒परि॑ष्टादु॒पाद॑धा - त्यारुणके॒तुको॒ऽष्टौ च॑)
T.A.1.24.3
ता उ॑त्तर॒त उप॑दधाति । ओज॑सा॒ वा ए॒ता वह॑न्तीरि॒वोद्-ग॑तीरि॒व आकूज॑तीरि॒व धाव॑न्तीः । ओज॑ ए॒वास्यो᳚त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽद्ध॑ ओज॒स्वित॑रः ॥ स॒भां॒र्या गृ॑ह्णाति । ता मद्ध्य॒ उप॑दधाति । इ॒यं ॅवै स॑भां॒र्याः । अ॒स्यामे॒व प्रति॑तिष्ठति ॥ प॒ल्व॒ल्या गृ॑ह्णाति । ता उ॒परि॑ष्टा-दु॒पाद॑धाति
कोर्वै (Index)
(ब्र॒ह्म॒व॒र्च॒सित॑रो॒ - वह॑न्तीर् गृह्णाति॒ - ता उ॒परि॑ष्टादु॒पाद॑धा - त्यारुणके॒तुको॒ऽष्टौ च॑)
T.A.1.24.4
अ॒सौ वै प॑ल्व॒ल्याः । अ॒मुष्या॑मे॒व प्रति॑तिष्ठति ॥ दि॒क्षूप॑दधाति । दि॒क्षु वा आपः॑ । अन्नं॒ ॅवा आपः॑ । अ॒द्भ्यो वा अन्न॑ञ्जायते । यदे॒वाद्भ्यो-ऽन्नं॒ जाय॑ते । तदव॑रुन्धे ॥ तं ॅवा ए॒तम॑रु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑यो-ऽचिन्वन्न् । तस्मा॑-दारुण के॒तुकः॑ ( ) ॥ तदे॒षाऽभ्यनू᳚क्ता ॥ के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाꣳ श॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑स॒मिति॑ ॥ श॒तश॑श्चै॒व ऽस॒हस्र॑शश्च॒ प्रति॑तिष्ठति । य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं ॅवेद॑ ।
कोर्वै (Index)
(ब्र॒ह्म॒व॒र्च॒सित॑रो॒ - वह॑न्तीर् गृह्णाति॒ - ता उ॒परि॑ष्टादु॒पाद॑धा - त्यारुणके॒तुको॒ऽष्टौ च॑)